Skip to main content
Search
Ch. 18 RV 18.21
Full Chapter
RV • Chapter 18: Canto 18

RV 18.21

Canonical Ref: RV 18.21
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु। `वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे ॥` इति केशवः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 18.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 18.20) All Verses in Chapter 18 Next Verse (RV 18.22) →