न वयं स्वर्ग-समानोपभोगान्नाना-विधान्भक्ष्य-विशेषान्राज-पुत्रैः स्व-दत्तानमृत-कल्पान्परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः ।
तच्छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयमेतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायमेतत्सुखं परिणामे विषवद्भविष्यति । तदहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च—
मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् । धन्यास्ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥
एवमभिधाय सर्वांस्तान्परित्यज्य स यूथाधिपोऽटव्यां गतः । अथ तस्मिन्गतेऽन्यस्मिनहनि स मेषो महानसे प्रविष्टो, यावत्सूपकारेण नान्यत्किञ्चित्समासादितं तावदर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानोऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः ।
तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद्बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश्चेतश्च ह्रेषायमाणा धावमाना सर्वमपि जन-समूहमाकुलीचक्रुः ।
अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान्वैद्यानाहूय प्रोवाच-भोः ! प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः ।
तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण, यत्—
कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥
तत्क्रियतामेतच्चिकित्सितां द्राक्, यावदेते न दाह-दोषेण विनश्यन्ति ।
सोऽपि तदाकर्ण्य समस्त-वानर-वधमादिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर्व्यापादिताः इति ।
अथ सोऽपि वानर-यूथपस्तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादमुपगतः । सन्त्यक्ताहार-क्रियो वनाद्वनं पर्यटति । अचिन्तयच्च-कथमहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च—
मर्षयेद्धर्षणां योऽत्र वंशजां पर-निर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥
अथ तेन वृद्ध-वानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्-नूनमत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालमादाय दूरस्थोऽपि जलं पिबामि ।
तथानुष्ठिते तन्-मध्याद्राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस्तमुवाच-भोः !अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन्नास्ति धूर्ततरस्त्वत्-समोऽन्यो यः पानीयमनेन विधिना पिबति । ततस्तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।
कपिराह-भोः ! कियती मे भक्षण-शक्तिः ?
स आह—शत-सहस्रायुत-लक्षाण्यपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां धर्षयति ।
वानर आह—अस्ति मे केनचिद्भूपतिना सहात्यन्तं वैरम् । यद्येनां रत्न-मालां मे प्रयच्छसि, तत्परिवारमपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि ।
सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत्समुचितं भवति तत्कर्तव्यमिति ।
वानरोऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन्जनैर्दृष्टः । पृष्टश्च-भो यूथप ! भवानियन्तं कालं कुत्र स्थितः ? भवता ईदृग्रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यमपि तिरस्करोति ।
वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन्निमज्जति, स धनद-प्रसादादीदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।
अथ भूभुजा तदाकर्ण्य, स वानरः समाहूतः । पृष्टश्च-भो यूथाधिप ! किं सत्यमेतत् ? रत्न-माला-सनाथं सरोऽस्ति क्वापि ?
कपिराह-स्वामिन् !एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस्ते । तद्यदि रत्न-मालया प्रयोजनं तन्मया सह कमपि प्रेषय, येन दर्शयामि ।
तच्छ्रुत्वा नृपतिराह-यद्येवं तदहं स-परिजनः स्वयमेष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।
वानर आह—एवं क्रियताम् ।
तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वमानीयते । अथवा साध्विदमुच्यते—
तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्वपि ॥
तथा च—
इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥
जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥
अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानमुवाच-देव !अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर्भवति तत्सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानमासाद्य, प्रभूतास्ते रत्न-माला दर्शयामि ।