Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 10 of 13 (Verses 30 shown)
अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरमाह-भो यूथाधिप किमिति चिरायते मे परिजनः ?
तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास्ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद्गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च—
PT 5.273 अनुष्टुप्
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥
तत्त्वया मम कुल-क्षयः कृतः मया पुनस्तव इति ।
अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन्भूपतौ गते राक्षस-स्पृष्टो जलान्निष्क्रम्य सानन्दमिदमाह—
PT 5.276 अनुष्टुप्
हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता । नालेन पिबता तोयं भवता साधु वानर ॥
अतोऽहं ब्रवीमि-यो लौल्यात्कुरुते कर्म इति ।
एवमुक्त्वा भूयोऽपि स चक्रधरमाह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि ।
चक्रधर आह—भद्र !आपद्-अर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन्मामेवंविधं त्यक्त्वा क्व यास्यसि ?उक्तं च—
PT 5.280 अनुष्टुप्
यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् । कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥
सुवर्णसिद्धिराह-भोः, सत्यमेतद्यदि गम्य-स्थाने शक्तिर्भवति । एतत्पुनर्मनुष्याणामगम्य-स्थानम् । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहमेतज्जानामि यत्द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेदिति । यतः—
PT 5.282 अनुष्टुप्
यादृशी वदन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥
सोऽब्रवीत्- कथा १० विकाल-वानर-कथा
कस्मिंश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद्राक्षसो जिहीर्षति । रात्रावागत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजामवस्थामनुभवति कम्पादिभिः ।
एकमतिक्रामति काले कदाचित्स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीमुवाच-सखि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्-नूनं यथाहं तथान्योऽपि कश्चिद्विकाल-नामास्या हरणाय नित्यमेवागच्छति । परं सोऽप्येनां हर्तुं न शक्नोति । तत्तावदश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश्चेति ?एवं राक्षसोऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिदश्व-चौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश्चिन्तयामास-नूनमेष विकाल-नामा मां चौरं मत्वा कोपान्निहन्तुमागतः । तत्किं करोमि ?एवं चिन्तयन्सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुमारब्धः ।
चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु वेगाद्वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश्चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्त्यगणित-खलीनाः । तन्नूनमनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित्पांसुलं भूमि-देशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितव्यमस्ति ।
एवं चिन्तयत इष्ट-देवतां स्मरतस्तस्य सोऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरोऽपि बट-प्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद्राक्षस-सुहृद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-भो मित्र ! किमेव अलाय्यतेऽलीक-भयेन ? तद्भक्ष्योऽयं मानुषः भक्ष्यताम् ।
सोऽपि वानर-वचो निशम्य, स्वरूपमाधाय शङ्कित-मनाः स्खलित-गतिर्निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किञ्चिदुक्तवान् । केवलं व्यथार्तो निमीलित-नयनस्तिष्ठति । राक्षसोऽपि तं तथा-भूतमवलोक्य श्लोकमेनमपठत्—
PT 5.295 अनुष्टुप्
यादृशी वचन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥
इत्युक्त्वा प्रणष्टश्च । तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह—भोः अकारणमेतत् । दैव-वशात्सम्पद्यते नृणां शुभाशुभम् । उक्तं च—
PT 5.298 उपजातिः
दुर्गस्त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद्विपन्नः ॥
PT 5.300 अनुष्टुप्
अन्धकः कुब्जकश्चैव त्रिस्तनी राज-कन्यका । त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥
← Previous (Ch. 4) Full Table of Contents