तथानुष्ठिते रासभ-रटनमाकर्ण्य क्षेत्रपः क्रोधात्दन्तान्धर्षयन्प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुड-प्रहारैस्तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः । ततश्च सच्-छिद्रमुलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभोऽपि स्वजाति-स्वभावाद्गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च—
सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात्परतौ न स्यात्प्रहार-जनिता व्यथा ॥
तत तमेवोलूखलमादाय वृत्तिं चूर्णयित्वा पलायितुमारब्धः । अत्रान्तरे शृगालोऽपि दूरादेव दृष्ट्वा स-स्मितमाह—
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽपि मणिर्बद्धः साम्प्रतं गीत-लक्षणम् ॥
तद्भवानपि मया वार्यमाणोऽपि न स्थितः ।
तच्छ्रुत्वा चक्रधर आह—भो मित्र ! सत्यमेतत् । अथवा साध्विदमुच्यते—
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थर-कोलिकः ॥
सुवर्णसिद्धिराह-कथमेतत् ?
सोऽब्रवीत्- कथा ७ मन्थर-कौलिक-कथा
कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित्पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थं गतः । स च समुद्र-तटे यावद्भ्रमन्प्रयातः तावत्तत्र शिंशपा-पादपस्तेन दृष्टः । ततश्चिन्तितवान्-महानयं वृक्षो दृश्यते । तदनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् ।
अथ तत्र वृक्षे कश्चित्व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्-भोः ! मद्-आश्रयोऽयं पादपः सर्वथा रक्षणीयः । यतोऽहमत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच्छीत-वायुनाप्यायितः ।
कौलिक आह—भोः ! किमहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्तयिष्यामि ।
व्यन्तर आह—भोः ! तुष्टस्तवाहम् । तत्प्रार्थ्यतामभीष्टं किञ्चित् । रक्षैमं पादपमिति ।
कौलिक आह—यद्येव तदहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि । ततस्त्वया देयम् ।
अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावदग्रे गच्छति, तावद्ग्राम-प्रवेशे निज-सुहृदं नापितमपश्यत् । ततः तस्य व्यन्तर-वाक्यं निवेदयामास, यत्-अहो मित्र ! मम कश्चित्व्यन्तरः सिद्धः । तत्कथय, किं प्रार्थये ?अहं त्वां प्रष्टुमागतः ।
नापित आह—भद्र ! यद्येवं तद्राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वावपीह सुखमनुभूय पर-लोक-सुखमनुभवावः । उक्तं च—
राजा दान-परो नित्यमिह कीर्तिमवाप्य च । तत्प्रभावात्पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥
कौलिक आह—अस्त्येतत्तथापि गृहिणीं पृच्छामि ।
स आह—भद्र ! शास्त्र-विरुद्धमेतत्यत्स्त्रिया सह मन्त्रः । यतस्ताः स्वल्प-मतयो भवन्ति । उक्तं च—
भोजनाच्छादने दद्याद् ऋतु-काले च सङ्गमम् । भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत्सुधीः ॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥
तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरु-जने रतः । पुरुषो योषितां यावन्न शृणोति वचो रहः ॥
एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्व-सुखं विना ॥
कौलिक आह—तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं तामपृष्ट्वाहं न किञ्चित्करोमि ।
एवं तमभिधाय सत्वरं गत्वा तामुवाच-प्रिये !अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत्कथय किं प्रार्थये ?एष तावन्मम मित्रं नापितो वतद्येवं यत्-राज्यं प्रार्थयस्व ।
साह-आर्यपुत्र ! का मतिर्नापितानाम् ? तन्न कार्यं तद्वचः । उक्तं च—
चारणैर्वन्दिभिर्नीचैर्नापितैर्बालकैरपि । न मन्त्रं मैत्मान्कुर्यात्सार्धं भिक्षुभिरेव च ॥
अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति । यतः—
यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेक-काले सहाम्भसैवापदमुद्गिरन्ति ॥
तथा च—