Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 5 of 13 (Verses 30 shown)
अथ्:अन्यस्मिन्दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा, विद्या-कुशलास्ते सर्वे सञ्जाताः ।
ततस्तैश्चतुर्भिर्मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायमुत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयतामित्युक्त्वा ब्राह्मणाः उपाध्यायमुकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत्किञ्चिन्-मार्गं यान्ति, तावद्द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ?
एतस्मिन्समये तस्मिन्पत्तने कश्चित्वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश्चतूर्णां मध्यादेकेन पुस्तकमवलोकितम्-महाजनो येन गतः स पन्थः इति । तन्महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्घाट्यावलोकितम् ।
PT 5.126 अनुष्टुप्
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
तदहो !अयमस्मदीयो बान्धवः । ततः कश्चित्तस्य ग्रीवायां लगति । कश्चित्पादौ प्रक्षालयति । अथ यावत्ते पण्डिताह्दिशामवलोकनं कुर्वन्ति तावत्कश्चिद्दुष्टो दृष्टः । तैश्चोक्तम्-एतत्किम् ?
तावत्तृतीयेन पुस्तकमुद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन्नूनमेष धर्मस्तावत् ।
चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत् ।
अथ तैश्च रासभ उष्ट्र-ग्रीवायां बद्धः । तत्तु केनचित्तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद्रजकस्तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस्तावत्ते प्रणष्टाः ।
ततो तावदग्रे किञ्चित्स्तोकं मार्गं यान्ति तावत्काचिन्नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तम्-आगमिष्यति यत्पत्रं तसस्मांस्तारयिष्यति । एतत्कथयित्वा तत्-पत्रस्योपरि पतितो यावन्नद्या नीयते तावत्तं नीयमानमलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्—
PT 5.132 अनुष्टुप्
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥
अथ तैश्च पश्चात्गत्वा कश्चित्ग्राम आसादितः । तेऽपि ग्रामीणैर्निमन्त्रितः पृथग्गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद्भवेन्न चिरायुषम् । स भोजनं त्यक्त्वा गतः ।
अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्वनर्था बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास्ततः स्थानात्स्व-देशं गताः ।
अथ सुवर्ण-सिद्धिराह-यत्त्वं लोक-व्यवहारमजानन्मया वार्यमाणोऽपि न स्थितः तत ईदृशीमवस्थातुमुपगतः । अतोऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति ।
तच्छ्रुत्वा चक्रधर आह—अहो अकारणमेतत् । यतो हि—
PT 5.137 अनुष्टुप्
सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः । स्वल्प-धीरपि तस्मिंस्तु कुले नन्दति सन्ततम् ॥
PT 5.139 वंशस्थम्
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥
PT 5.141 अनुष्टुप्
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्र-धीः । एक-बुद्धिरहं भद्रे क्रीडामि विमले जले ॥
सुवर्णसिद्धिराह-कथमेतत् ?
स आह— कथा ५ मत्स्य-मण्डूक-कथा
कस्मिंश्चिज्जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः । एवं ते त्रयोऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखमनुभूय, भूयोऽपि सलिलं प्रविशन्ति ।
अथ कदाचित्तेषां गोष्ठी-गतानां तस्मिन्जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्योऽयं ह्रदो दृश्यते, स्वल्प-सलिलश्च । तत्प्रभातेऽत्रागमिष्यामः । एवमुक्त्वा स्व-गृहं गताः ।
मत्स्याश्च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह—भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत्किमत्र युज्यते कर्तुम् ? पलायनमवष्टम्भो वा ? यत्कर्तुं युक्तं भवति तदादिश्यतामद्य ।
तच्छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह—भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्रादेव भयं न कार्यम् । न भेतव्यम् । उक्तं च—
PT 5.148 अनुष्टुप्
सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥
तावत्तेषामागमनमपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतोऽनेकांसलिल-चर्यामहं जानामि ।
तदाकर्ण्य शतबुद्धिराह-भोः युक्तमुक्तं भवता । सहस्रबुद्धिरेव भवान् । अथवा साध्विदमुच्यते ।
← Previous (Ch. 4) Full Table of Contents