Skip to main content
Search
Ch. 5 PT 5.253
Full Chapter
PT • Chapter 5: Canto 5

PT 5.253

Canonical Ref: PT 5.253
Sanskrit (Devanāgarī)
अथ तेन वृद्ध-वानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्-नूनमत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालमादाय दूरस्थोऽपि जलं पिबामि ।
Canonical CTS URN Reference
Pañcatantram, PT 5.253. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 5.252) All Verses in Chapter 5 Next Verse (PT 5.254) →