Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 20

Canto 20

विंशः सर्गः

Canto 20 of Naiṣadhīyacaritam.

Total: 162 Verses • Citations: NC 20.1–162 • 1 Lexicon Terms • Page 6 of 6 (Verses 12 shown)
NC 20.151 अनुष्टुप्
न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् । तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत् ॥
NC 20.152 अनुष्टुप्
नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् । ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः ॥
NC 20.153 अनुष्टुप्
इत्यधीरतया तस्य हठवृत्तिविशङ्किनी । झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः ॥
NC 20.154 अनुष्टुप्
न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता । भैमीकुचनितम्बेन नलसंभोगलोभिना ॥
NC 20.155 अनुष्टुप्
अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः । तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥
NC 20.156 अनुष्टुप्
आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् । स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ ॥
NC 20.157 अनुष्टुप्
प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया । शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम् ॥
NC 20.158 पुष्पिताग्रा
अचकथदथ बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः । जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते ॥
NC 20.159 पुष्पिताग्रा
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् । अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् ॥
NC 20.160 पुष्पिताग्रा
तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः । पुरमथनमुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः ॥
NC 20.161 शार्दूलविक्रीडितम्
आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षणस्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः । पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसीप्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥
NC 20.162 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥
← Previous (Ch. 19) Full Table of Contents Next (Ch. 21) →