Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 20

Canto 20

विंशः सर्गः

Canto 20 of Naiṣadhīyacaritam.

Total: 162 Verses • Citations: NC 20.1–162 • 1 Lexicon Terms • Page 4 of 6 (Verses 30 shown)
NC 20.91 अनुष्टुप्
स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् । स्वनिन्दारोषरक्त्रात्तु यदभैषं तवाधरात् ॥
NC 20.92 अनुष्टुप्
मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् । न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः ॥
NC 20.93 अनुष्टुप्
कमपि स्मरकेलिं तं स्मर यत्र भवन्निति । मया विहितसंबुद्धिर्वीडिता स्मितवत्यसि ॥
NC 20.94 अनुष्टुप्
नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना । स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥
NC 20.95 अनुष्टुप्
स्मर तन्नखमत्रोरौ कस्तेधा(दा)दिति ते मृषा । ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम् ॥
NC 20.96 अनुष्टुप्
वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति । देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत् ॥
NC 20.97 अनुष्टुप्
इति तस्या रहस्यानि प्रिये शंसति सान्तरा । पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥
NC 20.98 अनुष्टुप्
कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले । अप्यपीडयतां भैमीकरकोकनदे तु (नु) तौ ॥
NC 20.99 अनुष्टुप्
तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया । पिदधाविव वैदर्भी स्वरहस्याभिसंधिना ॥
NC 20.100 अनुष्टुप्
तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि । आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः ॥
NC 20.101 अनुष्टुप्
दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः । ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥
NC 20.102 अनुष्टुप्
तदास्यहसिताज्जातं स्मितमासामभासत । आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम् ॥
NC 20.103 अनुष्टुप्
प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् । सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि ॥
NC 20.104 अनुष्टुप्
साहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते । पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि ॥
NC 20.105 अनुष्टुप्
साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि । कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी ॥
NC 20.106 अनुष्टुप्
अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः । नलमौलिमणौ तस्या भावमाकलयत्कला ॥
NC 20.107 अनुष्टुप्
प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा । तद्द्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा ॥
NC 20.108 अनुष्टुप्
कारं कारं तथाकारमूचे साऽशृणवंतमाम् । मिथ्या वेत्थ गिरश्चैतद्व्यर्थाः स्युर्मम देवताः ॥
NC 20.109 अनुष्टुप्
मत्कर्णभूषणानां तु राजन्निबिडपीडनात् । व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥
NC 20.110 अनुष्टुप्
इति सा मोचयांचक्रे कर्णौ सख्याः करग्रहात् । पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः ॥
NC 20.111 अनुष्टुप्
श्रुतिसंरोधजध्वानसंततिच्छेदतालताम् । जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः ॥
NC 20.112 अनुष्टुप्
सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः । इदं च तां सखीमेत्य ययाचे काकुभिः कला ॥
NC 20.113 अनुष्टुप्
अभिधास्ये रहस्यं ते यदश्रावि मयानयोः । वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम् ॥
NC 20.114 अनुष्टुप्
वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने । विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः ॥
NC 20.115 अनुष्टुप्
तथालिमालपन्तीं तामभ्यधान्निषधाधिपः । आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् ॥
NC 20.116 अनुष्टुप्
प्रत्यालापीत्कलापीमं कलङ्कः शङ्कितः कुतः । प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता ॥
NC 20.117 अनुष्टुप्
सत्यं खलु तदाश्रौषां परं गुमुगुमारवम् । शृणोमीत्येव चावोचं नतु त्वद्वाचमित्यपि ॥
NC 20.118 अनुष्टुप्
आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये । शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥
NC 20.119 अनुष्टुप्
असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् । हन्त सेयमनर्हन्ती यन्न विप्रलभे युवाम् ॥
NC 20.120 अनुष्टुप्
कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः । मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥
← Previous (Ch. 19) Full Table of Contents Next (Ch. 21) →