तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः । अर्पणान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे ॥
तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति । तां प्यधत्त शिरसां खलु माल्यैराजराजिरभितः प्रणमन्ती ॥
द्रागुपाह्रियत तस्य नृपैतद्दृष्टिदानबहुमानकृतार्थैः । स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥
अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् । रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् ॥
तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य । अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः ॥
मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य । स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छुः ॥
यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् । गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना सिषिचुरुच्चकुचास्तम् ॥
भूभृतं पृथुतपोघनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः । संदधज्जलधरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥
प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् । स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् ॥
कल्प्यमानममुनाचमनार्थं गाङ्गमम्बु चुलुकोदरचुम्बि । निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु ॥
मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा । अङ्गमङ्गमनुकं परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥
मूलमध्यशिखरस्थितवेधःशौरिशंभुकरकाङ्घ्रिशिरःस्थैः । तस्य मूर्ध्नि चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः ॥
प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य । आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥
मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् । अम्बरं परिदधे विधुमौलेः स्पर्धयेव दशदिग्वसनस्य ॥
भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः । आववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥
स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः । केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाप्लवनश्रीः ॥
श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् । वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवासीत् ॥
राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण । भ्रान्तयः स्फुरति तेजसि चक्रुस्त्वष्टृतर्कुचलदर्कवितर्कम् ॥
सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे । शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥
पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य । न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोऽभूत् ॥
पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन । ब्रह्मचारिपरिचारि सुरार्चा वेश्म राजऋषिरेष विवेश ॥
क्वापि यन्नभसि धूपजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् । भूयते स्म सुमनःसुमनःस्रग्दामधामपटले पटलेन ॥
साङ्कुरेव रुचिपीततमा यैर्यैः पुरास्ति रजनी रजनीव । ते धृता वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥
यत्र मौक्तिकमणेर्विरहेण प्रीतिकामधृतवह्निपदेन । कङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः ॥
अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् । प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि ॥
गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति । यत्र साम्यमगमन्नमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः ॥
उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने । भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम् ॥
खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसंपत् । मल्लिकाकुसुमराशिरकाऋषीद्यत्र च स्फटिकसानुमनुच्चम् ॥
स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञौ । हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥
यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः । गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥