Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 21

Canto 21

एकविंशः सर्गः

Canto 21 of Naiṣadhīyacaritam.

Total: 164 Verses • Citations: NC 21.1–164 • 1 Lexicon Terms • Page 6 of 6 (Verses 14 shown)
NC 21.151 शार्दूलविक्रीडितम्
स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ । त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥
NC 21.152 शार्दूलविक्रीडितम्
पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्यते । का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः ॥
NC 21.153 शार्दूलविक्रीडितम्
खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत्पुण्ड्रकः । स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरामुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः ॥
NC 21.154 शार्दूलविक्रीडितम्
उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः । नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज्जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥
NC 21.155 शार्दूलविक्रीडितम्
आस्ये या तव भारती वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते । तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥
NC 21.156 शार्दूलविक्रीडितम्
वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती कापि ते खण्डः खण्ड इतीदमीयपुलिनस्यालप्यते वालुका । एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः किं पीयूषमिदंपयांसि किमिदं तीरे तवैवाधरौ ॥
NC 21.157 मालिनी
परभृतयुवतीनां सम्यगायाति गातुं न तव तरुणि वाणी यं सुधासिन्धुवेणी । कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसौ भवदुपविपिनाम्रे ताभिराम्रेडितेन ॥
NC 21.158 शार्दूलविक्रीडितम्
ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता । एषा वागपि तावकी ननु धनुर्वेदः प्रिये मन्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरभ्यस्यते ॥
NC 21.159 शार्दूलविक्रीडितम्
स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयतां तं च स्प्रष्टुमपि स्मरस्य विशिखा मुग्धे विगानोन्मुखाः । यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृङ्नाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् ॥
NC 21.160 स्रग्धरा
मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलघिमा मां प्रतीशित्वमेषि । सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् ॥
NC 21.161 शार्दूलविक्रीडितम्
त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुमस्तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स जानेऽजनि । द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥
NC 21.162 स्रग्धरा
शोकश्चेत्कोकयोस्त्वां सुदति तुदति तद्व्याहराज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् । बद्धे मय्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥
NC 21.163 शिखरिणी
तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् । इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं सायंतनविधिविधित्सुर्बहिरभूत् ॥
NC 21.164 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्यागादयमेकविंशगणनाकाव्येऽतिनव्ये कृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →