सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् । स प्राप रथपाथोभृद्वातजातजवो दिवः ॥
ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् । प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् ॥
स दूरमादरं तस्या वदने मदनैकदृक् । दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत ॥
तेन स्वर्देशसंदेशमर्षितं सा करोदरे । बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥
प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ । एकलक्षतया दध्यौ यत्तमेकवराटकम् ॥
प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् । समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥
क्वैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते । इति तं मनसा रोषादवोचद्वचसा न सा ॥
क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि । विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः ॥
सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात् । लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥
ममासावपि मा संभूत्कलिद्वापरवत्परः । इतीव नित्यसत्रेतां स त्रेतां पर्यतूतुषत् ॥
क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् । कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ ॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः । प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः ॥
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् । ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥
सावादि सुतनुस्तेन कोपस्ते नायमौचिती । त्वां प्रापं यत्प्रसादेन प्रिये तन्नाद्रिये तपः ॥
निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् । तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे ॥
इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ । रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैरमूमुहत् ॥
अवोचत ततस्तन्वीं निषधानामधीश्वरः । तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥
कटाक्षकपटारब्धदूरलङ्घनरंहसा । दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥
सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम । तप्तापि शतपत्रस्य सौरभायैव सौरभा ॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् । शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः ॥
ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः । बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव ॥
त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः । अद्ययावदहो धावद्दुग्धलेपलवस्मिताः ॥
पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव । अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः ॥
प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् । परिरभ्य चिरायास विश्लेषायासमुक्तये ॥
चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् । नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥
अथाहूय कलां नाम पाणिना स प्रियासखीम् । पुरस्ताद्वेशितामूचे कर्तुं नर्मणि साक्षिणीम् ॥
कस्मादस्माकमब्जास्य वयस्या दयते न ते । आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते ॥
अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति । न विप्रलभते तावदालीरियमलीकवाक् ॥
आह स्मैषा नलादन्यं न जुषे मनसेति यत् । यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥
आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे । तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥