Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 20

Canto 20

विंशः सर्गः

Canto 20 of Naiṣadhīyacaritam.

Total: 162 Verses • Citations: NC 20.1–162 • 1 Lexicon Terms • Page 3 of 6 (Verses 30 shown)
NC 20.61 अनुष्टुप्
सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् । ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः ॥
NC 20.62 अनुष्टुप्
अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् । संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् ॥
NC 20.63 अनुष्टुप्
अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः । आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये ॥
NC 20.64 अनुष्टुप्
स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् । अगोऽपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥
NC 20.65 अनुष्टुप्
मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती । वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा ॥
NC 20.66 अनुष्टुप्
अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी । सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् ॥
NC 20.67 अनुष्टुप्
दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा । यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा ॥
NC 20.68 अनुष्टुप्
वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः । शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥
NC 20.69 अनुष्टुप्
स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् । नयतीयं त्वदिन्द्रत्वे दिवश्चागमनं च ते ॥
NC 20.70 अनुष्टुप्
भाषते नैषधच्छायामायामायि मया हरेः । आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥
NC 20.71 अनुष्टुप्
संभावयति वैदर्भी दर्भाग्राभमतिस्तव । जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥
NC 20.72 अनुष्टुप्
अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः । शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः ॥
NC 20.73 अनुष्टुप्
इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् । वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः ॥
NC 20.74 अनुष्टुप्
स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् । यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ॥
NC 20.75 अनुष्टुप्
आनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे । सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया ॥
NC 20.76 अनुष्टुप्
स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि । अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥
NC 20.77 अनुष्टुप्
वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः । मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा ॥
NC 20.78 अनुष्टुप्
प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः । अतृप्तोऽधरपानेषु रसनामपिबं तव ॥
NC 20.79 अनुष्टुप्
त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् । स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तवाब्रवम् ॥
NC 20.80 अनुष्टुप्
त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः । वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥
NC 20.81 अनुष्टुप्
वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि । अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल ॥
NC 20.82 अनुष्टुप्
जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने । विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥
NC 20.83 अनुष्टुप्
चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् । प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम् ॥
NC 20.84 अनुष्टुप्
स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः । स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः ॥
NC 20.85 अनुष्टुप्
क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् । दर्शिताधरमद्दंशा ध्याय यन्मामतर्जयः ॥
NC 20.86 अनुष्टुप्
तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् । करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता ॥
NC 20.87 अनुष्टुप्
ताम्बूलदानमन्यस्तकरजं करपङ्कजे । मम न स्मरसि प्रायस्तव नैव स्मरामि तत् ॥
NC 20.88 अनुष्टुप्
तदध्ये (धी) हि मृषोद्यं मां हित्वा यत्त्वं गता सखीः । तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥
NC 20.89 अनुष्टुप्
स्मरसि प्रेयसि प्रायो यद्द्वितीयरतासहा । शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी ॥
NC 20.90 अनुष्टुप्
भुञ्जानस्य नवं निम्बं परिवेविषती मधौ । सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः ॥
← Previous (Ch. 19) Full Table of Contents Next (Ch. 21) →