पूर्णयैव द्विलोचन्या सैषालीरवलोकते । द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिवेक्षते ॥
न लोकते यथेदानीं मामियं तेन कल्पये । योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीडृशा ॥
रागं दर्शयते सैषा वयस्याः सूनृतामृतैः । मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः ॥
कां नामन्त्रयते नाम नामग्राहमियं सखीम् । कले नलेति नास्माकीं स्पृशत्याह्वां न जिह्वया ॥
अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये । अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥
अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः । प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥
इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् । दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे ॥
भावितेयं त्वया साधु नवरागा खलु त्वयि । चिरंतनानुरागार्हं वर्तते नः सखीः प्रति ॥
स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी । कथं संभुज्यते बाला कथम्स्मासु भाषताम् ॥
नासत्यवदनं देव त्वां गायन्ति जगन्ति यम् । प्रिया तस्य सरूपा स्यादन्यथालपना न ते ॥
मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः । त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥
सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथः । त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥
कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः । त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम् ॥
त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् । शङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ ॥
विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः । स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥
परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् । त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥
मनसायं भवन्नामकामसूक्तजपव्रती । अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात् ॥
अध्यासिते वयस्याया भवता महता हृदि । स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया । कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया ॥
इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः । ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम् ॥
बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः । चिरेण लब्धसंधानमरविन्दमिवेन्दुना ॥
ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् । दमयन्ती मुदे पत्युरुच्चैरप्यभवत्तदा ॥
भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् । परिहासविलासाय स्पृहयालुः सहप्रियः ॥
क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् । निशीव निशिधात्वर्थं यदाचरति नात्र नः ॥
दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः । तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः ॥
लज्जितानि जितान्येव मयि क्रीडितयाऽनया । प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति कं प्रति ॥
निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु । क्व फलं दशते बिम्बीलता कीराय कुप्यति ॥
सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः । पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न ॥
अधरामृतपानेन ममास्यमपराध्यतु । मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥
अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया । वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥