Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 21

Canto 21

एकविंशः सर्गः

Canto 21 of Naiṣadhīyacaritam.

Total: 164 Verses • Citations: NC 21.1–164 • 1 Lexicon Terms • Page 2 of 6 (Verses 30 shown)
NC 21.31 स्वागता
नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये । अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥
NC 21.32 स्वागता
सम्यगर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुनाकलि कर्णः । श्रद्दधानहृदयप्रति चातः साम्बमम्बरमणिर्निरचैषीत् ॥
NC 21.33 स्वागता
तत्तदर्यमरहस्यजपेषु स्रङ्नयः शयममुष्य बभाज । रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥
NC 21.34 स्वागता
हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः । आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥
NC 21.35 स्वागता
अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन । सोयमापयदतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥
NC 21.36 स्वागता
नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् । स्फाटिकीमपि तनुं निरमासीन्नीलकण्ठपदसान्वयतायै ॥
NC 21.37 स्वागता
प्रीतिमेष्यति कृतेन ममेदृक्कर्मणा पुररिपुर्मदनारिः । तत्पुरः पुरमतोयमधाक्षीद्धूपरूपमथ कामशरं च ॥
NC 21.38 स्वागता
तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् । शूलिमौलिशशिभीततयाऽभूद्ध्यानमूर्च्छननिमीलितनेत्रः ॥
NC 21.39 स्वागता
दण्डवद्भुवि लुठन्स ननाम त्र्यम्बकं शरणभागिव कामः । आत्मशस्त्रविशिखासनबाणान्न्यस्य तत्पदयुगे कुसुमानि ॥
NC 21.40 स्वागता
त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि । दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यमुपगम्य ननाम ॥
NC 21.41 स्वागता
व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् । भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिरश्रयत रुद्रपरस्य ॥
NC 21.42 स्वागता
उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः । द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य ववन्दे ॥
NC 21.43 स्वागता
मल्लिकाकुसुमदुण्डुभकेन स भ्रमीवलयितेन कृते तम् । आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥
NC 21.44 स्वागता
मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि स्फुरति स्म । कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥
NC 21.45 स्वागता
स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य । मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥
NC 21.46 स्वागता
नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः । शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥
NC 21.47 स्वागता
राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् । निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥
NC 21.48 स्वागता
अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः । तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥
NC 21.49 स्वागता
अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य । शौरिमुक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥
NC 21.50 स्वागता
कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन । जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥
NC 21.51 स्वागता
स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन । गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥
NC 21.52 स्वागता
इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः । सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥
NC 21.53 स्वागता
दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा । तत्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥
NC 21.54 स्वागता
स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम् । नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥
NC 21.55 स्वागता
मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते । उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोऽपि ॥
NC 21.56 स्वागता
छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः । श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥
NC 21.57 स्वागता
भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः । चुम्बितावतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥
NC 21.58 स्वागता
दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् । तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टयेऽस्तु मम वाऽस्तु जगत्याः ॥
NC 21.59 स्वागता
उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः । ब्राह्ममण्डमभवद्वलिनीपं केलिकोल तव तत्र न मातः ॥
NC 21.60 स्वागता
दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः । वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →