Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 54

Śalyaparva Adhyāya 54

शल्यपर्व • अध्यायः 54

Śalyaparva Adhyāya 54 of the classical Mahābhārata with 45 verses.

Total: 45 Verses • Citations: MBh 9.54.1–45 • 250 Lexicon Terms • Page 2 of 2 (Verses 15 shown)
सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ । नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ । लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ । ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ । जहृषाते महाबाहू सिंहौ केसरिणाविव ॥
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ । ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् । तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥
उभौ परमसंहृष्टावुभौ परमसंमतौ । सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥
English Translation
Duryodhana and Vrikodara then resembled two good horses neighing at each other, or two elephants grunting at each other.
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ । दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् । सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः । उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् । विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः । उपविष्टो महाराज पूज्यमानः समन्ततः ॥
English Translation
In the midst of that assemblage the mightyarmed and beautiful elder brother of Keshava, O king, as he sat down, was all adored by all around him.
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः । नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥
English Translation
In the midst of those kings, Baladeva clad in blue raiment and possessed of a fair complexion shone like the full moon surrounded in the night by thousands of stars.
तौ तथा तु महाराज गदाहस्तौ दुरासदौ । अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥
English Translation
Meanwhile those two heroes, O king, both armed with maces, and both unbearable by foes, stood there, exasperating each other with fierce speeches.
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ । उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥
English Translation
Having addressed each other with unpleasant words, those two heroes of Kuru's race stood, looking angrily upon each other, like Shakra and Vritra in fight."
← Previous (Ch. 1272) Full Table of Contents Next (Ch. 1274) →