Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 31

Ādiparva Adhyāya 31

आदिपर्व • अध्यायः 31

Ādiparva Adhyāya 31 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.31.1–19 • 250 Lexicon Terms
भुजंगमानां शापस्य मात्रा चैव सुतेन च । विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥
English Translation
Shaunaka said : O son of Suta, you have told us why the snakes were cursed by their mother; and why Vinata also cursed her son.
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥
English Translation
You have told us the bestowal of boons on Kadru and Vinata by their husband; you have also told us the names of the two sons of Vinata.
पन्नगानां तु नामानि न कीर्तयसि सूतज । प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥
English Translation
O son of Suta, you have not told us the names of the snakes (the sons of Kadru). We are anxious to know at least the names of the chief ones.
बहुत्वान्नामधेयानि भुजगानां तपोधन । न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥
English Translation
Sauti said: O Rishi, for fear of being lengthy, I shall not mention the names of all the snakes. But hear, I shall only mention the names of the chief ones.
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ ॥
कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥
नीलानीलौ तथा नागौ कल्माषशबलौ तथा । आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः । आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः । क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः । मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा । कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥
English Translation
O best of the twice-born, I have told you the names of the chief snakes. For fear of being tedious, I have not told you the names of the rest.
एतेषां प्रसवो यश्च प्रसवस्य च संततिः । असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥
English Translation
O Rishi, the sons and the grandsons of the snakes were innumerable, therefore, I shall not mention their names to you.
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । अशक्यान्येव संख्यातुं भुजगानां तपोधन ॥
English Translation
O Rishi, the number of snakes defies calculation in this world. There are many thousands and millions of the snakes.
← Previous (Ch. 30) Full Table of Contents Next (Ch. 32) →