Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 10

Araṇyakaparva (Vanaparva) Adhyāya 10

अरण्यकपर्व • अध्यायः 10

Araṇyakaparva (Vanaparva) Adhyāya 10 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 3.10.1–24 • 250 Lexicon Terms
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् । मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च । गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् । पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् । दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः । अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् । सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल । गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ॥
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् । मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप । अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् । प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥
एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप । कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् । अपरोऽल्पबलप्राणः कृशो धमनिसंततः । कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः । नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता । अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने । किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे । दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः । जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् । कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा । सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक । विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥
चिराय तव पुत्राणां शतमेकश्च पार्थिव । पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि । इति दीनेषु पार्थेषु मनो मे परितप्यते ॥
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि । दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥
← Previous (Ch. 306) Full Table of Contents Next (Ch. 308) →