Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 57

Sabhāparva Adhyāya 57

सभापर्व • अध्यायः 57

Sabhāparva Adhyāya 57 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 2.57.1–22 • 250 Lexicon Terms
परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् । जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् ॥
सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति । जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् ॥
उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि । भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥
जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः । द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात् ॥
अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे । तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे ॥
मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् । यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् ॥
अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः । न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता । तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि ॥
भिनत्ति शिरसा शैलमहिं भोजयते च यः । स एव तस्य कुरुते कार्याणामनुशासनम् ॥
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति । मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ॥
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति । भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥
न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् । स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति ॥
एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् । राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति ॥
अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे । यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः ॥
न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥
अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु । स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् ॥
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥
अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि । सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥
वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् । यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः ॥
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः । एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥
← Previous (Ch. 281) Full Table of Contents Next (Ch. 283) →