Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 56

Sabhāparva Adhyāya 56

सभापर्व • अध्यायः 56

Sabhāparva Adhyāya 56 of the classical Mahābhārata with 11 verses.

Total: 11 Verses • Citations: MBh 2.56.1–11 • 250 Lexicon Terms
द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय । यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ॥
प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः । दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति । विषाणं गौरिव मदात्स्वयमारुजते बलात् ॥
यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम् । नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत् ॥
दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च । अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् ॥
आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः । युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ॥
प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः । वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम् ॥
यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः । वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥
महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः । बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ॥
जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः । यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ॥
← Previous (Ch. 280) Full Table of Contents Next (Ch. 282) →