Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 55

Sabhāparva Adhyāya 55

सभापर्व • अध्यायः 55

Sabhāparva Adhyāya 55 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 2.55.1–18 • 250 Lexicon Terms
महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु । मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥
यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः । दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ॥
गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे । दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते । आरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥
सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते । प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥
विदितं ते महाराज राजस्वेवासमञ्जसम् । अन्धका यादवा भोजाः समेताः कंसमत्यजन् ॥
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना । एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ॥
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् । निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ॥
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च । क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः । इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ॥
हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् । गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ॥
सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतप । आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ॥
तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ । मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ॥
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत । मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ॥
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् । मा गमः ससुतामात्यः सबलश्च पराभवम् ॥
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत । मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥
← Previous (Ch. 279) Full Table of Contents Next (Ch. 281) →