Skip to main content
Search
MBh
Mahābhārata • Parva 15 (Āśramavāsikaparva) • Adhyāya 36

Āśramavāsikaparva Adhyāya 36

आश्रमवासिकपर्व • अध्यायः 36

Āśramavāsikaparva Adhyāya 36 of the classical Mahābhārata with 34 verses.

Total: 34 Verses • Citations: MBh 15.36.1–34 • 250 Lexicon Terms
वनवासं गते विप्र धृतराष्ट्रे महीपतौ । सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते । वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह । व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥
वनवासे च कौरव्यः कियन्तं कालमच्युतः । युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥
English Translation
For how many days did the Kuru king Yudhishthira of Undecaying glory, stay with his men in the forest.
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो । सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥
English Translation
Of what food, O powerful one, did the great Pandavas support themselves with their men, and wives, while they lived in the forest? O sinless one, do you tell me this.
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः । विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥
English Translation
Vaishampayana said With the permission of the Kuru king, the Pandavas, O monarch, with their troops and the ladies of their household, lived on various kinds of food and drink and passed about a month in great happiness in that forest. Towards the close of that period, O sinless one, Vyasa came there.
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने । अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ । व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥
English Translation
While all those princes sat around Vyasa, engaged in conversation on various topics, other Rishis came there.
नारदः पर्वतश्चैव देवलश्च महातपाः । विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥
English Translation
They were Narada, Parvata, Devala of austere penances, Vishvavasu, Tunburu and Chitrasena, O Bharata.
तेषामपि यथान्यायं पूजां चक्रे महामनाः । धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥
English Translation
Gifted with severe penances, the Kuru king Yudhishthira, with the permission of Dhritarasthra, adored them according to due rites.
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् । आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥
English Translation
Having got that worship from Yudhishthira, all of them sat down on sacred seats (made of Kusha grass as also on excellent seats made of peacock feathers.
तेषु तत्रोपविष्टेषु स तु राजा महामतिः । पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥
English Translation
After they had all been seated, the Kuru king of great intelligence took his seat there, surrounded by the sons of Pandu.
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा । स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥
English Translation
Gandhari, Kunti and Draupadi, and she of the Satvata race, and other ladies of the royal household also sat down.
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप । ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥
English Translation
The conversation which then arose was excellent and had reference to subjects, connected with piety, and the Rishis of old, and the celestials and the Asuras.
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् । प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः । प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् । दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव । कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् । सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप । संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः । पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् ॥
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते । प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना । मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे । यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः । भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥
दर्शनादेव भवतां पूतोऽहं नात्र संशयः । विद्यते न भयं चापि परलोकान्ममानघाः ॥
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् । दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥
English Translation
O sinless ones, I have no longer any fear about my end in the next world. Full as I am of love for my children, I always remember them. My mind, however is always pained by the recollection of the various acts of wrong which my wicked of exceedingly evil understanding perpetrated. Having a sinful understanding, he always persecuted the innocent Pandavas.
अपापाः पाण्डवा येन निकृताः पापबुद्धिना । घातिता पृथिवी चेयं सहसा सनरद्विपा ॥
राजानश्च महात्मानो नानाजनपदेश्वराः । आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् । परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे । तथैव पुत्रपौत्राणां मम ये निहता युधि ॥
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् । भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥
मम पुत्रेण मूढेन पापेन सुहृदद्विषा । क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् । न शान्तिमधिगच्छामि दुःखशोकसमाहतः । इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥
English Translation
Deeply afflicted with pain and grief, I am unable to get peace of mind. Indeed, O sire, thinking of all this, I have no peace of man.
← Previous (Ch. 1966) Full Table of Contents Next (Ch. 1968) →