Skip to main content
Search
MBh
Mahābhārata • Parva 14 (Aśvamedhikaparva) • Adhyāya 62

Aśvamedhikaparva Adhyāya 62

अश्वमेधिकपर्व • अध्यायः 62

Aśvamedhikaparva Adhyāya 62 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 14.62.1–24 • 250 Lexicon Terms
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना । अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ॥
English Translation
Janamejaya said Having heard these words, O twice-born one, that were spoken by the great Vyasa about the Horse-Sacrifice, what steps were taken by Yudhishthira.
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले । तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥
English Translation
Tell me, O foremost of twice-bom ones, how the king succeeded in obtaining the riches which Marutta had buried in the Earth!
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः । भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् । अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना । कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ॥
तपोवृद्धेन महता सुहृदां भूतिमिच्छता । गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता । संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ॥
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् । अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः । तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि । तदानयामहे सर्वे कथं वा भीम मन्यसे ॥
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह । भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥
रोचते मे महाबाहो यदिदं भाषितं त्वया । व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो । कृतमेव महाराज भवेदिति मतिर्मम ॥
ते वयं प्रणिपातेन गिरीशस्य महात्मनः । तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् । प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥
रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः । ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत । प्रीतो धर्मात्मजो राजा बभूवातीव भारत । अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् । सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥
English Translation
The Pandavas then, having resolved to bring that wealth, ordered their forced to march under the constellation Dhruva and on the day called by the same name.
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च । अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥
English Translation
Making the Brahmanas utter benedictions on them, and having duly adored the great god Maheshvara, the sons of Pandu started on their enterprise).
मोदकैः पायसेनाथ मांसापूपैस्तथैव च । आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥
English Translation
Pleasing that great deity with Modakas and frumenty and with cakes made of meat, the sons of Pandu started with cheerful hearts.
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ । प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥
English Translation
While they thus started, the citizens, and many foremost of Brahmanas, with cheerful hearts, uttered auspicious blessings (on their heads).
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च । ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥
English Translation
The Pandavas, going round many Brahmanas who daily adored their fires, and bending their heads unto them, proceeded on their journey.
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् । धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ॥
English Translation
Taking the permission of king Dhritarashtra who was stricken with grief on account of the death of his sons, his queen (Gandhari), and Pritha also of large eyes, and keeping the Kaurava-prince Yuyutsu, the of Dhritarashtra, in the capital, they started, adored by the citizens and by many Brahmanas endued with great wisdom. son
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् । संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ॥
English Translation
Taking the permission of king Dhritarashtra who was stricken with grief on account of the death of his sons, his queen (Gandhari), and Pritha also of large eyes, and keeping the Kaurava-prince Yuyutsu, the of Dhritarashtra, in the capital, they started, adored by the citizens and by many Brahmanas endued with great wisdom. son
← Previous (Ch. 1896) Full Table of Contents Next (Ch. 1898) →