Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 59

Śāntiparva Adhyāya 59

शान्तिपर्व • अध्यायः 59

Śāntiparva Adhyāya 59 of the classical Mahābhārata with 142 verses.

Total: 142 Verses • Citations: MBh 12.59.1–142 • 250 Lexicon Terms • Page 2 of 5 (Verses 30 shown)
त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा । चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ॥
English Translation
The self-create named the book as one of three subjects. He treated of a fourth subject called liberation whose meaning and attributes are different.
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥
English Translation
The three-fold characteristics of liberation according to the attributes of Goodness, Darkness and Ignorance and another namely the performance of duty without the desire for fruits were also described in it. Another threefold characteristics of Punishment viz., Conservation, Growth, and Destruction, were treated in it.
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥
English Translation
Another six consisting of the hearts of men, place, time, means, tacts, and alliances, and causes, were described in it.
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥
English Translation
The religious rites laid down in the three Vedas, knowledge, and the acts necessary for the support of life, (viz., agriculture, trade, etc.), O foremost of Bharata's race, and the very extensive branch of learning called legislation, were described in it.
अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् । चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥
English Translation
The subjects also of behaviour towards ministers, of spies, the indications of princes, of secret agents, of envoys and agents of other kinds, conciliation, sowing seeds of discord, gifts, and punishment, O king, with toleration as the fifth, were fully described there.
साम चोपप्रदानं च भेदो दण्डश्च पाण्डव । उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च । विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥
English Translation
Deliberation of all sorts, counsels for creating disunion, the mistakes of deliberation, the results of the success or failure of counsels of three kinds viz., bad, middling, and good, made through fear, good conduct and gifts of wealth, were described there.
संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः । भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ॥
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः । विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥
English Translation
The four sorts of time for making journeys, the details of the aggregate of three, the three sorts of victory, viz, that secured piously, that acquired by riches and that obtained by deceit were described, fully. The three kinds of attributes, viz., bad, middling and good, of the five expedients (viz., counsellors, kingdom, fort, army, and treasury) were also described in it.
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः । लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥
English Translation
The four sorts of time for making journeys, the details of the aggregate of three, the three sorts of victory, viz, that secured piously, that acquired by riches and that obtained by deceit were described, fully. The three kinds of attributes, viz., bad, middling and good, of the five expedients (viz., counsellors, kingdom, fort, army, and treasury) were also described in it.
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ॥
English Translation
Punishments of two kinds, viz, open and secret, were also described. The eight kinds of open punishments as also the eight kinds of secret punishment were described fully.
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव । विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ॥
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः । अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ॥
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह । आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम् । व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् । शस्त्राणां पायनज्ञानं तथैव भरतर्षभ ॥
बलव्यसनमुक्तं च तथैव बलहर्षणम् । पीडनास्कन्दकालश्च भयकालश्च पाण्डव ॥
तथा खातविधानं च योगसंचार एव च । चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥
अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः । श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥
दूषणेन च नागानामाशङ्काजननेन च । आरोधनेन भक्तस्य पथश्चोपार्जनेन च ॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् । दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् । अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् । शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः ॥
अभृतानां च भरणं भृतानां चान्ववेक्षणम् । अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता ॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ये । कारणस्य च कर्तुश्च गुणदोषास्तथैव च ॥
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् । शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् । प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना । चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ॥
क्रोधजानि तथोग्राणि कामजानि तथैव च । दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥
English Translation
The ten dreadful vices, O chief of the Kurus, begotten by anger and lust, were described in that work.
← Previous (Ch. 1386) Full Table of Contents Next (Ch. 1388) →