Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 290

Śāntiparva Adhyāya 290

शान्तिपर्व • अध्यायः 290

Śāntiparva Adhyāya 290 of the classical Mahābhārata with 111 verses.

Total: 111 Verses • Citations: MBh 12.290.1–111 • 250 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव । गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ॥
वैतरण्यां च यद्दुःखं पतितानां यमक्षये । योनीषु च विचित्रासु संसारानशुभांस्तथा ॥
जठरे चाशुभे वासं शोणितोदकभाजने । श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे । सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ॥
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप । तामसानां च जन्तूनां रमणीयावृतात्मनाम् ॥
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ । गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् ॥
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा । ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप । अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् । रागे मोहे च संप्राप्ते क्वचित्सत्त्वं समाश्रितम् ॥
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः । दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः । विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् । वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् । सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर । सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा । क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् । क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ॥
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः । क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः । जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः । देहविक्लवतां चैव सम्यग्विज्ञाय भारत ॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् । स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम । एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥
English Translation
Yudhishthira said O you of immeasurable energy, what are those faults which you see in one's body? You should explain this doubt to me fully and truly.
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः । मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन ॥
English Translation
Bhishma said Listen, O killer of enemies, the Sankhyas or followers of Kapila, who are conversant with all paths and gifted with wisdom, say that there are in all five faults, O powerful one, in the human, body.
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥
English Translation
They are Desire, Anger, Fear, Sleep and Breath. These faults are seen in the bodies of all embodied creatures. They who are gifted with wisdom cut the root of anger with the help of Forgiveness. Desire is cut off by renouncing all purposes.
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् । सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा । छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ॥
English Translation
By cultivation of the quality of Goodness (Sattva) sleep is conquered and Fear in conquered by cultivating carefulness. Breath is conquered by restriction of diet, О king.
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि । हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् । चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् ॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् । रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥
सांख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् । ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप ॥
← Previous (Ch. 1617) Full Table of Contents Next (Ch. 1619) →