Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 290

Śāntiparva Adhyāya 290

शान्तिपर्व • अध्यायः 290

Śāntiparva Adhyāya 290 of the classical Mahābhārata with 111 verses.

Total: 111 Verses • Citations: MBh 12.290.1–111 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः । योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥
English Translation
Yudhishthira said O king, you have duly described to me, in the proper way, the path of Yoga which is approved by the wise, like a loving preceptor to his pupil.
सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते । त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥
English Translation
I ask now about the principles of the Sankhya philosophy. Do you describe those principles to me in full. You know whatever knowledge exists in the three worlds.
शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम् । विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ॥
English Translation
Bhishma said Hear now what the subtile principles are of the followers of the Sankhya doctrine all of whom have a clear knowledge of the soul. Those principles have been laid down by all the great and powerful Yatis having Kapila for their first.
यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ । गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥
English Translation
In that doctrine, O king no errors are seen. Its merits are manifold. In fact, there is no fault in it.
ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप । मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा । विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप । सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा । आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् । विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः । सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥
प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् । तिर्यक्च पततां दुःखं पततां नरके च यत् ॥
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत । वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप । सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा । तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा । बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः । मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ॥
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभैः । प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ॥
English Translation
Vision is attached to form; the sense of scent to smells; the ear to sound; the tongue to juices; and the skin to touch. The Wind has for its refuge Ether. Stupefaction has Darkness for its refuge. Cupidity has the objects of the senses for its refuge.
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् । मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ॥
English Translation
Vision is attached to form; the sense of scent to smells; the ear to sound; the tongue to juices; and the skin to touch. The Wind has for its refuge Ether. Stupefaction has Darkness for its refuge. Cupidity has the objects of the senses for its refuge.
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ॥
English Translation
Vishnu is attached to (the organs of) motion. Indra is attached to (the organs of) strength. The god of fire is attached to the stomach. Earth is attached to the Waters. The Waters have fire for their refuge.
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् । नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥
English Translation
Heat attaches itself to the Wind; and the Wind has Ether for its refuge; and Space has the principle of greatness for its refuge; and the principle of greatness has Understanding for its basis.
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् । रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥
English Translation
The Understanding has its refuge in Darkness; Darkness has Ignorance for its refuge; Rajas is founded upon the quality of goodness and quality of Goodness is attached to the Soul.
सक्तमात्मानमीशे च देवे नारायणे तथा । देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥
English Translation
The Soul has the glorious and powerful goodness Narayana for its refuge. That glorious god has Liberation for his refuge. Liberation is independent of all refuge.
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः । स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ॥
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते । द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् । प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥
अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः । सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् । सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप ॥
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् । ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ॥
← Previous (Ch. 1617) Full Table of Contents Next (Ch. 1619) →