Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 04

Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

प्रकाशः 4 • क्रियाद्यर्थचतुष्टयप्रकाशः

Prakāśa 4 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 756 Verses • Citations: SP 4.1–756 • 4 Lexicon Terms • Page 14 of 26 (Verses 30 shown)
तत्र शक्तिमतो द्रव्यस्य कारकाख्यायामवान्तरव्यापारनिबन्धनाः षडुपाख्या भवन्ति, १. कर्ता, २. कर्म, ३. करणम्, ४. संप्रदानम्, ५. अपादानम्, ६. अधिकरणम् चेति। तेषु—
किं पुनस्तस्य स्वातन्त्र्यम्, यत् करणादीनि प्रयुङ्क्ते, न तैः प्रयुज्यते, तानि न्यक्करोति, न तैर्न्यक्क्रियते, न तैर्निर्वर्त्यते, तानि निर्वर्तयति, तानि प्रतिनिधत्ते, न तैः प्रतिनिधीयते; तेभ्यस्सः प्रथममात्मानं लभते, न तानि। तस्मात् स तैर्विनाऽपि दृश्यते, न तानि तेनेति। तदाह—
प्रागन्यतश्शक्तिलाभान्न्यग्भावापादनादपि।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात्॥ ८५॥
अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्।
आरादप्युपकारित्वे प्राधान्यं कर्त्तुरुच्यते॥ ८६॥
कथं तर्हि कर्तृशक्त्या न्यक्कृतेषु करणादिषु कारकत्वम्, स्वव्यापारे प्रधानव्यापारे च स्वातन्त्र्यात्। तदुक्तम्—
गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः।
करणत्वादिभर्जाताः क्रियाभेदानुवादिभिः॥ ८७॥१
१. वाक्यपदीये ३.७.२०—३.७.२१ इति कारिकयोः पूर्वार्द्धे।
व्यस्ता(न्यक्‍ता)यामपि संपूर्णैस्स्वव्यापारैस्समन्विताः।
स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम्॥ ८८॥१
यथा राज्ञो नियुक्तेषु योद्ध‍ृत्वं योद्‍धृषु स्थितम्।
तेषु वृत्तौ तु लभते राजा जयपराजयौ॥ ८९॥
तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु।
कर्तृत्वं करणादित्वैरुत्तरं न विरुध्यते॥ ९०॥
कर्त्रादीनां च षण्णामपि प्रत्येकं त्रिप्रकारत्वादष्टादशप्रभेदा भवन्ति। तत्र —
कर्ता स्वतन्त्रः, हेतुः, कर्मकर्ता च।
कर्म निर्वर्त्यं, विकार्यं प्राप्यं च।
करणं बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च।
संप्रदानं ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।
अपादानं निर्दिष्टविषयमनिर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं च।
अधिकरणं वैषयिकमौपश्लेषिकं नैमिक्तिकं चेति।
(स्वतन्त्रः —६) तच्च(त्र)कर्तृभेदेषु स्वतन्त्रः समर्थोऽसमर्थस्समर्थासमर्थः, संबन्धोऽसंबन्ध— स्संबन्धासंबन्धश्‍च। तेषु—
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →