Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 04

Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

प्रकाशः 4 • क्रियाद्यर्थचतुष्टयप्रकाशः

Prakāśa 4 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 756 Verses • Citations: SP 4.1–756 • 4 Lexicon Terms • Page 8 of 26 (Verses 30 shown)
अन्ये तु विचटनमेवाधिश्रयणादिरूपं प्रतिपन्नाः, न रूपशून्यानधिश्रयणादीन् अप्रत्यस्तविचटनरूपान्; आहुश्‍च कः पुनः पचेः प्रधानार्थः? याऽसौ तण्डुलानां विक्‍लित्तिः। (मभा. ३.१.२६)।
अथवा यदभिसंधिपूर्वकं प्रेषणमध्येषणं वा स सर्वः पच्यर्थ इति। सर्वस्मिन्नपि दर्शने यथाभूताख्यातशब्देन क्रिया प्रक्रम्यते, तथाभूतायाः सिद्धमप्रत्यक्षत्वमिति फलेनैव समाधिगमो युक्तः। स कथमिति चेत्, इह सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद् भवति, कदाचिन्न भवति, यस्मिन्निमित्ते सन्निहिते पचतीत्येतद्, भवति सा नूनं क्रिया, 'यथा देवदत्त इह भूत्वा पाटलिपुत्रे भवति, सा नूनं क्रिया' इति (मभा. १. ३. १)। द्वितीयहेतुशक्‍त्या सोऽप्यर्थ इति चेन्नैवम्; इह कस्यचिदेषा बुद्धिः स्यात्; असत्येवास्मिन्निमित्ते पचत्यादिबुद्धयः प्रबर्तन्ते, यथा मृगतृष्णिकादिष्विति तदनेन निर्वर्तयति (वाप. ३ क्रिया)। मृगतृष्णिकादिभ्यो हि तृप्‍तिमलापकर्षणघर्मापनोदनादि न फलं निर्वर्तते। असर्वगतयोर्हि देवंदत्तपाटलिपुत्रयोर्गमनक्रियान्तरनैरन्तर्येणावस्थानरूपं फलमुपलभ्यते।
अथवा एतदयं प्रतिपद्येत, शक्तिकृताः पचत्यादयो विशेषोः सप्रत्ययाश्‍च स्युः, न क्रियाकृता इति, तदनेन निर्वर्तयति, यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रियेति। यदि ह्येते शक्तिकृतास्स्युः शक्‍त्यनन्तरमेव पाटलिपुत्रेण प्राप्तिः स्यात्। न च भवति, तस्माद् भवितव्यं शक्तिकृतेनान्येन धर्मेण, यस्य फलं देशान्तरप्राप्तिरिति।
क्रियामन्ये तु मन्यन्ते क्‍वचिदप्यनपाश्रिताम्।
साधनेकार्थकारित्वे प्रवृत्तिमनपायिनीम्॥ ३१॥
सामान्यभूता धात्वर्थैस्सा पुनः प्रविभज्यते।
ततो व्यापाररूपेण साध्ये पर्यवतिष्ठते॥ ३२॥
प्रकृतिस्साधनानां सा प्रथमं तच्‍च कारकम्।
शक्तिरेकाधिकरणे स्त्रोतोवदपकर्षति॥ ३३॥
अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथञ्चन॥ ३४॥
सा तु यथा अस्ति भवति करोतीत्याद्यच्छेदे भेदादभिन्नापि भिन्नेव प्रकाशते, तथा क्रमरूपोपादानान्नित्यमेव कालसंबन्धोपाधिभूत—भूत—भविष्यदादिव्यपदेशमासादयति॥
क्रियैव, क्रियान्तरावधृतपरिमाणव्यवच्छिन्ना वा क्रियापरिच्छेदहेतुः कालः।
कथं पुनः क्रिययैव क्रियापरिच्छित्ति ?
श्रूयताम् इह तु क्रियाः काश्‍चित्क्रियान्तरैः कैश्‍चिद् बुद्ध्यैव परिमीयन्ते। यथा अर्कादीनां गतयः, यथा च गोदोहादयः, यथाऽस्मदादिव्यापाराः, यथा पुरुषायुषादयस्त— त्रावधृतपरिमाणाभिरितराः परिच्छिद्यन्ते; यथा दिविसं गच्छति, वर्षशतं जीव, ओदनपाकमास्ते, गोदाहं स्वपिति; तत्र परिच्छेदकालव्यवहारं वर्तयन्ति; यथा 'सवितुरुदयादिरस्तमयपर्यन्तः क्रियाप्रबन्धो दिवसः, स एवास्तमयादिः पुनरुदयावसानो निशा, सर्वर्क्षाणां सकृत्परिवृत्ति— रहोरात्रः, कालभिरिन्दोराप्यायनं परिक्षयो वा पक्षः, चन्द्रस्य सकलनक्षत्रातिक्रमो मासः, सूर्याचन्द्रमसोर्गति विभागादेकाहोरात्रक्षयः ऋतुः, रवेर्दक्षिणत उत्तरतो वा गमनमयनम्, बृहस्पतेरेकाराश्य तिक्रमस्संवत्सर इति। तेन चोक्तानुक्तक्रियया कालोऽवच्छिद्यते। यथा दिवा दिवसः, दिवसो निशा चाहोरात्रः, पञ्चदशाहोरात्रः पक्षः, पक्षद्वयं मासः, मासद्वयमृतुः, ऋतुत्रयमयनं, अयनद्वयं संवत्सरः, पञ्च संवत्सरा युगम्, युगानि द्वादश कल्पः, कल्पशतानि द्वादश महाकल्पः, महाकल्पषष्टिश्‍चतुर्युगम्, चतुर्युगानि द्विसप्ततिर्मन्वन्तरम्, मन्वन्तराणि चतुर्दश ब्रह्मदिवसः, तावत्येव तन्निशा प्रलयः, तन्मानेन वर्षशतान्ते ब्रह्मणोऽपवर्गो महाप्रलयः। यथा वा सूर्यस्य भगणभोगो वर्षं, राशिभोगो मासः, मासत्रिंशांशो दिनं, दिनषष्ट्यंशः कला, कलाषष्ट्यंशो विकला, विकलाषष्ट्यंशः तत्परेति। तत्र 'यथा रजताद्यधिकरणगौरवमवधृतपरिमाणद्रव्यान्तरसंबन्धसमुत्कीर्णरेखस्तुलादण्डः रेखासूत्रावस्थानः पलशः कर्षशो भागशो परिच्छिनत्ति, तथा कलादिव्यवस्थानवशेन भागशः कालान्तरं परिच्छिनत्ति। परिमाणं परिमिमीतेक्रियानियमैः कालावच्छेदनियमः, यथा परमाणोः स्वावष्टब्धप्रदेश क्रमलक्षणः कालः क्षणः, पक्ष्मसंपातो निमेषः, इयत्क्षणा इयन्निमेषा वा नाडिका, द्विनाडिको मुहूर्तः, पादोनचतुर्मुहूर्तो यामः, यामाष्टकमहोरात्र इति। बुद्ध्यवच्छेदेन वा कालपरिच्छेदः, यथा अर्कस्य उदयाविदूरता प्रत्यूषः, (विराट्)पुरुषभ्रूप्रदेशगता दीर्घता पूर्वाह्‍णः, तपमा मध्याह्नः, परावृत्य दर्शनमपराह्‍णः, अस्तमयासन्नताभिसन्धिः सन्ध्येति। रात्रेः प्रारम्भो निशामुखम्, निशामुखाद् रात्रेस्तुर्यांशः प्रदोषः, अर्धरात्रमुभयतो निशाष्टमो निशीथः, निशीथात् तावन्मात्रमपररात्रः, परतो निशावशेषः प्रभावमिति क्रियाविशेषैः कालविशेषावगमः। तथा हि—
शयाने शोरते रात्रौ दिवा जाग्रति जाग्रति।
जगत्प्रदीपे पद्मानि कलत्राणीव भर्तरि॥ ३५॥
रतान्तकालकान्तस्त्रीदृग्विलासैकसाक्षिणी।
निशा नीलोत्पलानीके निमीलति निमीलति॥ ३६॥
चञ्च्वग्रचुम्बिताऽऽताम्रचूताङ्‌कुरकदम्बकैः।
कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः॥ ३७॥
दिवाकरकरालातपतानिर्दग्धवीरुधः।
मार्गास्समल्लिकामोदा भाविग्रीष्मस्य शंसिनः॥ ३८॥
शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः।
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →