३. एवमपरोऽपि त्रिधा नैमित्तिकः, सामान्यो, यौवनजश्च। तेषु —
नैमित्तिको यथा—(उराच. ३.९)
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥ ३६॥
सामान्यो यथा—(गास. २.४२)
समसोक्खदुक्खसंववड्ढिआणं कालेण रूढपणआणं।
मिहुणाणं मरइ जं तं खु जिअइ इअरं मअं होइ॥ ३७॥
(समसौख्यदुःखसंवर्धितयोः कालेन रूढप्रणययोः।
मिथुनयोर्म्रियते यत् तत् खलु जीवति इतरन्मृतम् भवति)॥
यौवनजो यथा—
अणुदिअहं वड्ढंते खु क्खुरुडे/गरुए व्व दुक्खमुव्वहइ।
कुलवहुआ विहवत्तणणिप्पइगुणगोरवेण थणाए॥ ३८॥
(अनुदिवसं वर्धमानयोः खलु गुरुकयोः इव दुःखमुद्वहति।
कुलवधुका विधवात्वनिष्पत्तिगुणगौरवेण स्तनयोः॥)
४. प्रत्यवरोऽपि त्रिधैव प्रकाश, आहार्यः, कृत्रिमश्चेति। तेषु —
प्रकाशो यथा—(कुसं. ४.३)
अयि जिवितनाथ! जीवसीत्यभिधायोत्थितया तया पुनः।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥ ३९॥
आहार्यो यथा—
किं देव्या अपि चुम्बितोऽस्मि बहुशो मिथ्याप्रसुप्तस्तया कोपे सत्यपि किं निरीक्ष्य हसिता नो मन्मूखं भामिनी।
विस्त्रम्भात् कलिता लतेव हृदये किं वा चिरं न स्थिता कान्तिर्वास्य विनापि वाच्यमसवो यन्न प्रयाताः स्वयम्॥ ४०॥
कृत्रिमो यथा—(गास. ८७६वे.)
तह अडअणाए रुण्णं पइमरणे वाहरिध्धकंठीए।
अणुमरणसंकिणो जह जारस्स वि संकिअं हिअअं॥ ४१॥
(तथा असत्या रुदितं पतिमरणे बाष्पकरुद्धकण्ठया।
अनुमरणशङ्किनो यथा जारस्यापि शङ्कितं हृदयम्॥)
सम्भोगविप्रलम्भाश्रयभेदेषु प्रथमानुरागानन्तर्यादयोऽष्टावपि प्रत्येकं त्रिधा— तज्जातास्तदुल्लेखिनस्तदन्तरङ्गाश्च।
(९. सम्भोगाश्रयः)
१. तत्र सम्भोगाश्रयेषु प्रथमानुरागानन्तरजा यथा—(मामा. ६.९)
नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।