१. ॰सायविद्रवः=॰सायःविद्रवः' इति जो. रा., २. उदाहरणानि नोपलभ्यन्ते पृ.१५०३, ३. तपस्योद्योगः पृ. १५०४, ४. ॰द्ृश्यदर्शनम् पृ.१५०४, ५. सहायत्वास्वीकरणम् पृ. १५०५
यथा वा—(सेब. ११.१०५)
अलअंधआरिअमुही समुहागण(अ)कंठभमिरवेणिवंधा।
मोहपडिवण्णहिअआ दरजंपिअणीसहं पुणो वि णिसण्णा॥ ९२॥
(अलकान्धकारितमुखी सम्मुखागतकण्ठभ्रमणशीलवेणीबन्धा।
मोहप्रतिपन्नहृदया दरजल्पितनि सहं पुनरपि निःसंज्ञा॥)
४. मोहसमावेशो यथा—(सेब. ११.५६)
खणणिच्चलणीसासं जा(अं) मोहंधआरसामच्छाअं।
विरलमिलिअच्छीपत्तं मुछाहीरंततारअं तीए मुहं॥ ९३॥
(क्षणनिश्चलनिःश्वासं जातं मोहान्धकारश्यामच्छायम्।
विरलमिलिताक्षिपत्रं मूर्च्छाह्रियमाणतारकं तस्या मुखम्॥)
यथा वा—(सेब. ११.५७)
विअलिअविओअविअणं तक्खणपब्भट्ठराममरणाआसं।
जणअतणआइ णवरं लद्धं मुच्छाणिमीलअच्छीए मुसुहं॥ ९४॥
(विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम्।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम्॥)
५. चेतनाप्रत्यागमो यथा—(सेब. ११.५८)
थणपरिणाहत्थइए तीसे हिअअम्मि पअणुअं पि ण दिट्ठं।
दीहं पि समूससिअं दुक्खिज्जइ णवर वेविरे अहरोट्ठे॥ ९५॥
(स्तनपरिणाहस्थगिते तस्याः हृदये प्रतनुकमपि न द्ृष्टम्।
दीर्घमपि समुच्छ्वसितं दुःख्यते केवलं वेपनशीले अधरोष्टे॥)
यथा वा—(सेब. ११.५९)
अवरिप्फुडणीसासा तो सा मोहविरमे वि णीसहपडिआ।
बढ्ढंत—बाह—गुरुइअ—दुक्ख —समुव्वूढ—तारअं उम्मिल्ला॥ ९६॥
(अपरिस्फुटनिःश्वासा ततः सा मोहविरमे अपि निस्सहपतिता।
वर्धमान—बाष्प—गुरूकृत—दुःख—समुद्व्यूढ—तारकं उन्मीलिता॥)
६. मूर्च्छाविच्छेदो यथा—(कुसं. ४.१)
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम्॥ ९७॥
यथा वा—(रघु. १४.५६)