भ्रमति हृदयं चिन्तायत्तं धनुर्गुरुतां गतं न खलु विषयं जाने चेतस्तथापि समाकुलम्।
अयमपि मुहुर्बाष्पोत्पीडो रुणद्धि विलोचने स्फुरति च यथा वामं चक्षुस्तथैष शठो विधिः॥ २८॥
४. शङ्कितो यथा—(मामा. ८.१३)
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमति परिहासश्चण्डि! पर्युत्सुकोऽस्मि।
कलयसि कलितोऽहं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि॥ २९॥
(८. अनुरागाश्रयः) अनुरागाश्रयप्रभेदेषु
१. श्रेयांस्त्रिधा नित्योऽकृत्रिमो विस्त्रम्भजश्च। तेषु —
नित्यो यथा—नित्योऽकृत्रिमो विस्त्रम्भजश्च। तेषु —
नित्यो यथा—(गास. ४.७३)
अंतोहुत्तं डज्झइ जाआसुण्णे घरे हलिअउत्तो।
ओ(ऊ)सित्तणिहाणाइं व रमिअट्ठाणा पेच्छतो॥ ३०॥
(अन्तरभिमुखं दह्यते जायाशून्ये गृहे हलिकपुत्रः।
उपसिक्तनिधानानीव रमितस्थानानि पश्यन्॥)
अकृत्रिमो यथा—(रघु. ८.६६)
धृतिरस्तमिता रतिशच्युता विरतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ३१॥
विस्त्रम्भजो यथा—(उराच. ६.३३)
क्व तावानानन्दो निरतिशयविस्त्रम्भबहुलः क्व तेऽन्योन्यं यत्र क्वचन गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो— स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति॥ ३२॥
२. तथा मध्यमोऽपि सहजः, प्रच्छन्नो, वैशिषिकश्चेति त्रिधैव। तेषु — सहजो यथा—
मुखं ज्योत्स्नालोकप्रसरधवलाक्षं क्वनु मया पुनर्दुप्यन्ते/र्द्रष्टव्यं तत् स्मितमधुरमन्थाल्पवचनम्।
क्व सा श्रव्या वाणी विजितकलहंसीकलरवा विलासाः पश्यन्त्या/वीक्ष्यन्तां क्व च सहभुवो धीरललिताः॥ ३३॥
प्रच्छन्नो यथा—
दट्ठूण चिरं रोत्तूण णिब्भरं धारिऊण हिअअम्मि।
बंधइ कंठे अइणं ठिअं कंठिअं ओ मह पाइणी॥ ३४॥
(दृष्ट्वा चिरं रुदित्वा निर्भरं धृत्वा हृदये।
बधाति कण्ठे अजिनं स्थितां कण्ठिकां अइ मम पत्नी॥)
वैशेषिको यथा—(रघु. ८.६९)
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः॥ ३५॥