मात्सर्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं चे१॥ ४२॥
२. मानानन्तरीयेषु मानानन्तरजो यथा—
जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि क्षणं भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः॥ ४३॥
तदुल्लेखी यथा—(रघु. ८.४८)
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि।
कथमेकपदे निरागसं जनमाभाष्यममुं न मन्यसे॥ ४४॥
तदन्तरङ्गो यथा—(उराच. ३.१३)
तटस्थं नैराश्यादपि च कलुषं विप्रियवशाद् वियोगे दीर्घेऽस्मिन् झटिति स्तम्भितमिव।
प्रसन्नं सौजन्यादपि च करुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव॥ ४५॥
३. प्रवासानन्तरीयेषु तज्जातो यथा—
धौतोऽमलः श्लाघ्यतरैः सहायैः पराभवः शत्रुकृतो भवद्भिः।
यत् साम्प्रतं सम्प्रति राघवाणां त्यागेन देव्यास्तदहं करोमि॥ ४६॥
तदुल्लेखी यथा—
विरहरचितां गाढां वेणीं तवोद्ग्रथयञ्छनै— र्विरहगुणितास्तास्ताः कुर्वन् कथाः समयोचिताः।
कृशतरतनुं त्वामाश्लिष्य त्यजेयमहं शुचं यदिति गुणितं तन्मे धात्रा शठेन न सह्यते॥ ४७॥
तदन्तरङ्गो यथा—(उराच. १.३०)
तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुःखाग्निर्मनसि मुहुर्निवर्तमानो हृन्मर्मग्रहमिव वेदनां करोति॥ ४८॥
१. प्रथमानुरागोल्लेखी प्रथमानुरागान्तरङ्गश्च नोपलभ्येते।
४. करुणानन्तर्येषु तज्जातो यथा—(उराच. १४०)
हाहा धिक् परगृहवासदूषणं यद् वैदेह्याः प्रशमितमद्भुतैरुपायैः।
तत् तावत् पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसृप्तम्॥ ४९॥
तदुल्लेखी यथा—(मामा. ९.११)
मयि विगलितप्रत्याशत्वाद् विवाहविधेः पुरो विकलकरणैर्मर्मच्छेदव्यथाविधुरैरिव।
स्मरसि रुदितैः स्नेहाकूतं तथा व्यतनोदसा— वहमपि यथाऽभूवं पीडातरङ्गितसम्मदः॥ ५०॥
तदन्तरङ्गो यथा—
येनात्मम्भरिणा निरस्य करुणामुत्सृज्य लज्जामपि प्रश्वासोपचयाहिताधिकधृतिस्नेहोऽपि नावेक्षितः।
सोऽहं सुभ्रु! विलोकयामि वदनं ब्रूयां प्रसीदेति वा चण्डालस्तव चण्डि! दारुणतरं तत् कर्म कृत्वा कथम्॥ ५१॥
(१०. विप्रलम्भाश्रयः)