Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 29

Prakāśa 29: दूतसंप्रेषणादिप्रकाशः

प्रकाशः 29 • दूतसंप्रेषणादिप्रकाशः

Prakāśa 29 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 765 Verses • Citations: SP 29.1–765 • 4 Lexicon Terms • Page 14 of 26 (Verses 30 shown)
'अण्णं च जाणिदव्वं भअवदीए। एतच्च माहवपदिच्चंदअसणाहं चित्तफलअं। (मालत्याः स्तनांशुकमपनीय) एसा अ तस्स एव्व सहत्थविरइदा कंठविलंबिदा बउलमाला जीविदप्पिअसहित्ति॥ {अन्यच्च ज्ञातव्यं भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। (मालत्याः स्तनांशुकमपनीय) एषा च तस्यैव स्वहस्तविरचिता कण्ठविलम्बिता बकुलमाला जीवितप्रियसखीति।} यद्‍व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितम्'॥ १०८॥ (मामा.४.१) इत्यादि
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।
तद्भूयः शुकशिशुशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ १०९॥
अस्यावस्थानिवेदनात्प्रयोज्य ॰ ॰ ॰ भेदः।
सखी—दूती—नायकोदासीनेषु दृष्टश्रुतानुमितभेदावस्थाज्ञानं प्रपञ्चः। तत्र —
प्रम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्गिकः/र्धिंतः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ११०॥
प्रियसखि! विपद्दण्डाघातप्रवातपरम्परा— परिचयचले चिन्ताचक्रे विधाय विधिः खलः।
मृदमिव हठात् पिण्डीकृत्य प्रगल्भकुलालवद् भ्रमयति मनो नो जानीमः किमत्र विधास्यति॥ १११॥
३.सख्या अनुमितं यथा—(विसा. २.१४)
यत् तालीदलपाकपाण्डुरदनं यद् दुर्दिनं नेत्रयोः यत् प्रेङ्खोलितकेलिपङ्कजवनाश्वासाः प्रसर्पन्ति च।
गौरी क्रुध्यतु वर्तते यदि न ते तत् कोऽपि चित्ते युवा धिग्धिक्त्वां सहपांसुखेलनसखीलोकेऽपि यन्निह्नवः॥ ११२॥
४. दूत्या दृष्टं यथा—(मामा. २.३)
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलशेषा मूर्तिः शशिन इव नेत्रेत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा— मियं नः कल्याणी रमयति मनः कम्पयति च॥ ११३॥
५. दूत्या श्रुतं यथा—(मामा. ३.१३)
यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं मनोज्ञतायाः।
इति नन्दितमप्यवस्थयास्याः हृदयं दारुणया विदार्यते मे॥ ११४॥
६. दूत्यानुमितं यथा—(मामा. ४.२)
ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितललितं किञ्चिदाकुञ्चितभ्रु।
अन्तर्मोदानुभवमसृणस्रस्तनिष्कम्पपक्ष्म— व्यक्तं शंसत्यचिरमनयोर्दृष्टमाकेकराक्षम्॥ ११५॥
७. नायकस्य दृष्टं यथा—(शाकु. ३.८)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ ११६॥
८.नायकस्य श्रुतं यथा—(सूमु. १.६०)
← Previous (Ch. 28) Full Table of Contents Next (Ch. 30) →