Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 29

Prakāśa 29: दूतसंप्रेषणादिप्रकाशः

प्रकाशः 29 • दूतसंप्रेषणादिप्रकाशः

Prakāśa 29 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 765 Verses • Citations: SP 29.1–765 • 4 Lexicon Terms • Page 13 of 26 (Verses 30 shown)
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥ ९९॥
अगूढसद्भावमितीङ्गितज्ञया निवेदिते नैष्‍ठिकसुन्दरस्तया।
अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥ १००॥
७. नायको दूत्या यथा—(मामा. ४.१)
'अद्याहमन्तर्नगर एव कांचिद् वार्तामुपश्रुत्य माधवस्य चित्तोद्वेगमधिकमाशङ्कमानः त्वरितमवलोकिताविदितकुसुमाकरोद्यानवृत्तान्तः परापतन्नेव शार्दूलावस्कन्देन गोचरमिमामभिजातकन्यकामभ्युपपन्नवान्'॥ १०१॥
८. नायकः सख्युर्यथा—'श्रूयताम्, गतोऽहमवलोकिताजनितकौतुकः कामदेवायतनम् (मामा. १.२३/२४)' इत्यत आरभ्य,
जयति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलेचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥
९. नायको नायिकाया यथा—(मामा. ५.२७)
त्वत्पाणिपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः ।
भ्राम्यत्रृमांसपणनाय परेतभूमा— वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि॥ १०३॥
१०. नायिकाय दूत्या यथा—(मामा. ७.१/२)
'पिअसहि बुद्धरक्खिदापक्खवादपच्‍चएण पधमं एव्व तस्सिं जणे अचिरणिव्वुददंसणा भविअ' (प्रियसखि बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिन् जने अचिरनिर्वृत्तदर्शना भूत्वा॥) इत्यत आरभ्य
'पिअसमक्खं सव्वमणुभविअ झडिति सुण्णारण्णसण्णिहं पुणो वि मंदभाइणी विभावेमि जीवलोअं' (प्रियसमक्षं सर्वमनुभूय झडिति शून्यारण्यसन्निभं पुनरपि मन्दभागिनी विभावयामि जीवलोकम्॥) इति यावत्। यद्वा 'कथं पुणो दीअणाडिआविच्छेदपडहो ताडिअदि।' (कथं पुनः दीर्घनाडिकाविच्छेदपटहः ताड्यते ॥ १०४॥) इति यावत्।
११. नायिकासख्या यथा—(शाकु. ३.१०)
शाकुन्तले 'जदो पहुदि मम दंसणपहं गदो तपोवणरक्खी राएसी तदो आरहिअ तग्गदेण अहिलासेण एआरिसावत्था संउत्ता। तहा करेह यहा तस्स राएसिणो अणुकंपणीआ होमि। अह अण्णहा सिंच दाणिं मे उदअं।' (यतः प्रभृति मम दर्शनपथमागतः तपोवनरक्षी राजर्षिः, तत आरभ्य तद्गतेन अभिलाषेण एतादृशावस्था संवृत्ता। तथा कुरुतं यथा तस्य राजर्षेः अनुकम्पनीया भवामि। अथ अन्यथा सिञ्चतं इदानीं मे उदकम्।)
राजा— सहर्षं 'श्रुतं श्रोतव्यम्। विमर्शच्छेदि वचनम्। एतावान् कामिन' इत्यारभ्य ॥ १०५॥ (शाकु. ३.१०)
तपति तनुगात्रि! मदनस्त्वामनिशं मां पुनर्दहत्येव।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ १०६॥
१२.नायिका नायकस्य यथा—(कुसं. ५.६४)
यथाश्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्‍तिसाधनं मनोरथानामगतिर्न विद्यते॥ १०७॥
एवमन्येऽपि यथा—(मामा. ६.१५ / १६)
'भअवदि किसण—रअणि—मसाण—पचार—विव्वसिद—विसम—ववसाअ— णिट्ठाविद—चंड—पचंडपखंडदोद्दण्डसाहसो साहसिओ एसो। अदो पिअसही उक्कंविदा।' (भगवति कृष्णरजनीश्मशानप्रचारव्यवसितविषमव्यवसायनिष्ठापितचण्डप्रचण्ड— पाखण्डदोर्दण्डसाहसो साहसिक एषः। अतः प्रियसखी उत्कम्पिता।)
← Previous (Ch. 28) Full Table of Contents Next (Ch. 30) →