अथ
श्रृङ्गारप्रकाशे एकोनत्रिंशः प्रकाशः
दूतसंप्रेषणादिप्रकाशः
के पुनर्दूतसम्प्रेषणादयः?
दूतसम्प्रेषणं, सन्देशदानं, सुपात्रप्रणिधानं, दूतानुगमः, सखीविगर्हणं, मार्गोदीक्षणं, समागमचिन्ता, चिरयद्विमर्शः, दूतागमनम्, आकारपरीक्षा, दूतप्रतिभेदः, दूतपरिप्रश्नः, दूतव्याहारः, दूतवाक्याकर्णनं, गमनवृत्तान्तः, प्रवृत्त्युपलम्भः, प्रियसन्देशः, सुहृत्संमन्त्रणम्, अवस्थानुभवः, सहायोत्साहनं, प्रियदूतागमनं, दूतप्रतिपत्तिः, वार्ताभिधानं, कार्यपर्यनुयोगः, दूतवाक्यम्, उत्तराभ्युपपत्तिः, दूतप्रतिंवाक्यं, दूतवाक्याक्षेपः, दूताभिभर्त्सनं, परिजनादिक्षोभः, गुरुजनाशङ्का, सहायावेगः, इतिकर्तव्यता, स्वयम्प्रवृत्तिः, नायकानयनं, प्रियाभिगमः, उपस्थापनं, सम्भ्रमविकल्पः, नायिकाप्रतिबोधनं:, सुहृत्परिहासः, दूतपुरस्कारः, इतिवृत्ताख्यानम्, अवस्थाज्ञानम्, अवधानं, (संप्रयोग—)संविधानं, शक्तिविवेचनं, समागमोपायः, समीहितसिद्धिरिति अष्टचत्वारिंशत्।
तेषामन्वर्थसंज्ञाभिर्लक्षणान्युपलक्षयेत् ।
नानाविधेषु लक्ष्येषु वक्ष्यमाणेन वर्त्मना॥ १॥ तत्र—
१. दूतसम्प्रेषणं यथा—(मेघ. ६, ७)
जातं वंशे भुवनविदिते पुष्करावर्तकानाम्॥ २॥
(पृ. १०५४) इत्यादि।
सन्तप्तानां त्वमसि शरणं तत्पयोद! प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यान—स्थित—हर—शिरश्चन्द्रिका—धौतहर्म्या॥ ३॥
२. सन्देशदानं यथा—(गास. ४८६वे, २.१)
अहअं विओअतणर्इ दुसहो विरहाणलो चलं जीअं।
अप्पाहिज्जउ किं सहि! जाणसि तं चेअ जं जुत्तं॥ ४॥
(अहं वियोगतन्वी दुस्सहो विरहानलश्चलं जीवम्।
अभिधीयतां किं सखि जानासि त्वमेव यद् युक्तम्॥)
दूइ तुमं विअ णिउणा कक्खढमउआइं जाणसे वोत्तुं(ल्लुं)।
कंडूइअपंडुरं जह ण होइ तह तं कुणिज्जासु॥ ५॥
{दूति त्वमेव निपुणा कर्कशमृदुकानि जानासि कक्तुम्।
कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्वीथाः॥}
(गास. २. ८१)
३. सुपात्रप्रणिधानं यथा—
सत्थिमल—आवलाओ—सुहाहहगुजोलंहइ ।
सब्भावमेत्तएणएणअभावेज्जसु किंध बहुएणा॥ ६॥
वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअ—लेहणीमग्गे ।
सोत्थि व्विअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो॥ ७॥
(वेपनशीलस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः॥)
(गास. ३.४४)