कंटअ—विलिहिअ—पीणुण्णअ—थणि उत्तम्म एत्ताहे॥ ८३॥
(उरःपीडितवृतिकारवेल्लीफलान्युच्चिनोपि दयितवत्सले।
कण्टक—विलिखित—पीनोन्नत—स्तनि उत्ताम्येदानीम्॥)
यथा वा—(गास. ८८६वे.)
कस्स वा ण होइ रोसो दट्ठूण पिआएँ सव्वणं अहरं।
सभमरपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ ८४॥
(कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम्॥)
अविनयनिगूहनं यथा—(गास. ९५९वे.)
उच्चिणसु पडिअकुसुमं मा धुण सेहालिअं हलिअसोण्हे।
एस अवसाणविरसो ससुरेण सुओ वलअसद्दो॥ ८५॥
(उच्चनु पतितं कुसुमं मा धुनीः शेफालिकां हालिकस्नुषे।
एष अवसानविरसो श्वशुरेण श्रुतो वलयशब्दः॥)
यथा वा—
अत्तघर/त्ताधरणेवच्छं ता इहि दिअरस्स पुत्तिअ अवेहि।
तुह कम्म—वाव—उत्तण—तणुआए गलंति वलआइ॥ ८६॥
(आत्मगृह/धरनेपथ्यं तावद् इदं देवरस्य पुत्रिके! अपेहि।
तव कर्मव्यापृतत्वतनुकायाः गलन्ति वलयानि॥)
चिह्ननिह्नवो यथा—
अत्तस्स पडिमा उअरत्थादपोरीए।
बालअ धण्णोसि तुमं जेण जिअंती पिआ दिट्ठा॥ ८७॥
(आत्मनः प्रतिमा उदरस्था X X।
बालक धन्योऽसि त्वं येन जीवन्ती प्रिया दृष्टा॥)
यथा वा—
ढक्कंती अहरं पाआरेण/पावारएण हेमंतपवण—फुडिअंपि।
अइ उजुए किलिस्ससि विजंपिउं दिअरजाआए॥ ८८॥
(छादयन्त्यधरं प्रावारकेण हेमन्तपवनस्फुटितमपि।
अयि ऋजुके क्लिश्यसि विजल्पितुं देवरजायया॥)
एवं सङ्केतदानादिशेषाकूपारपारगा।
इत्युद्भेदसमाधानप्रच्छादनविशारदा॥ ८९॥