यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः॥)
यथा वा—
अम्मणु—अंचणपुव्वं वणम्मि तह दूमिआ उ आसहिं।
जह सा ण ठाइ हेट्ठे हु तस्स वि चूअविडवस्स॥ २६॥
(अनुगमनपूर्व वने तथा दुःखिता तु आशाभिः।
यथा सा न तिष्ठति अधस्तात् खलु तस्यापि चूतविटपस्य॥)
सङ्केतप्रार्थना यथा—(गास. २.३)
बहुपुप्फभरोणामिअ भूमीगअसाह सुणसु विण्णत्तिं।
गोलातडविअडकुडंगमहुअ सणिअं गलिज्जासु॥ २७॥
(बहुपुष्पभरावनामितभूमीगतशाख श्रृणु विज्ञप्तिम्।
गोदातटविकटनिकुंजमधूक शनैर्गलिष्यसि॥)
यथा वा—
सिकतिलतलाः सान्द्रच्छायास्स्तनान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः।
अविनयवती—निर्विच्छेद—स्मर—व्यय—दायिनः कथय मुरले! केनामी ते कृता निचुलद्रुमाः॥ २८॥
सङ्केतबहुमानो यथा—(गास ३.९५) (१२४८)
चुंबइ वासिण्णमुही दइअकओलं व पंडुरच्छाअं।
असई णिहुवणवडपाअवस्स वाआणिअं पत्तं॥ २९॥
(चुम्बति वा स्विन्नमुखी दयितकपोलमिव पाण्डुरच्छायम्।
असती निधुवनवटपादपस्य वातानीतं पत्रम्॥)
यथा वा—(गास. ६.५६)
गामंगण—णिअलिअ—कण्हवक्ख वड तुज्झ दूरमणुलग्गो।
तित्तिल्ल—पडिक्खक—भोइओ वि गामो सुहं वसइ॥ ३०॥
(ग्रामाङ्गणनिगडितकृष्णपक्ष वट तव दूरमनुलग्नः।
दौःसाधिक—प्रतीक्षक—भोगिकोऽपि ग्रामः सुखं वसति॥)
सङ्केतवात्सल्यं यथा—
जं जं तणगअं पि वपू . . मत्तणिअच्छएअसअं।
आणंदवाहणिब्भरभरिअच्छी वेतसकुडुंगं॥ ३१॥
यथा वा—
बद्धावेउं इच्छइ पंसुलि गामसण्णो रण्ण—छेत्तेसु।
मुग्गस्स कण्णसरिच्छं दीसइ वण्णं पलाअस्स॥ ३२॥