Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 13

Prakāśa 13: रतिप्रकाशनः

प्रकाशः 13 • रतिप्रकाशनः

Prakāśa 13 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 481 Verses • Citations: SP 13.1–481 • 4 Lexicon Terms • Page 16 of 17 (Verses 30 shown)
गाहन्तां महिषां निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ १२६॥
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री— रविरतगुणगुञ्जत्कोटिना कार्मुकेण।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना— मुपरि शरतुषारं कोऽप्ययं वीरपोतः॥ १२७॥
हेरम्बदन्तमुसलोल्लिखितैकभित्ति वक्षो विशालविशिखव्रणलाञ्छितं मे।
रोमाञ्चकञ्चुकितमद्‍भुतवीरलाभात् सत्यं ब्रवीमि परिरब्धुमिवेच्छति त्वाम्॥ १२८॥
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्ततादा मनो— र्द‍ृप्‍तानां दमनाय दीपितनिजक्षात्रप्रतापाग्‍निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिः सद्यो ममैतत् ततो दीप्‍ताग्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ १२९॥
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः॥ १३०॥
अनुगामिनी यथा—(विक्रमो. २.१६)
मया नाम जितं यस्मात् त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १३१॥
सैष भावो रतिर्नाम कामकल्पद्रुमाङ्कुरः।
सौहृदाङ्कुरकन्दश्च द्विप्रकारोऽपि दर्शितः॥ १३२॥
भावान्तरेभ्यः सर्वेभ्यो रतिभावः प्रकृष्यते।
कविवर्गः समग्रोऽपि तमेनमनुधावति॥ १३३॥
निसर्गसंसर्गमुखैः प्रभेदैर्जन्मानुबन्धातिशयादिभिश्च।
इदं विनिश्चित्य निवेशयन्तः कवीन्द्रभावं कवयो लभन्ते॥ १३४॥
इति श्रीमहाराजाधिराजभोजदेवविरचिते शृङ्गारप्रकाशे रतिप्रकाशनो नाम
कामपत्‍न्‍यावुभे ह्येते रतिप्रीति तयोरसौ।
प्रकाशो भोजदेवेन हन्त गाढं प्रकाशितः॥
सनातनस्य मे पुण्यं महदेव न संशयः।
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →