२१. जुगुप्सायाः सुहृद्यप्रियवाच्यानिष्टश्रवणदर्शनपरिकीर्तनादय आलम्बनविभावाः। तत्स्वरूपविकारक्रियाविपरिणामपरिणामादय उद्दीपनविभावाः। सर्वाङ्गसंहाराक्षि— सङ्कोचमुखविकूणनहृल्लेखनिष्ठीवनोद्वेजनादयोऽनुभावाः। विस्मयनिर्वेदभय— ग्लानिशङ्कामोहस्मृतिजडताऽऽवेगविषादापस्मारव्याधिरोमाञ्चमदवेपथुस्वरभेद— वैवर्ण्याश्रुमूर्च्छाप्रलापादयो व्यभिचारिणः॥
२२. विस्मयस्य असम्भाव्यमानकौतुकमाहेन्द्रजालमानुषकर्मचित्रपुस्तशिल्पविद्याति— शयादय आलम्बनविभावाः। दिव्यजनभाषणोपवनदेवकुलविहारदर्शनादय उद्दीपनविभावाः। नयनविस्तारानिमेषप्रेक्षणभ्रूविक्षेपसाधुवादप्रबन्धहाहाकाराङ्गुलि— भ्रमणादयोऽनुभावाः जडतामोहमूर्च्छादयो व्यभिचारिणः॥
२३. निद्राया दौर्बल्यमुदश्रमक्लमालस्यचिन्ताऽत्याहारस्वभावाभ्यासादय आलम्बन— विभावाः। मनस्सन्तोषनिश्चिन्तताविविक्तस्थानलाभानुकूलोपकरणप्राप्त्यादय उद्दीपनविभावाः। शिरोवेदनगौरवशरीरलोलननेत्रघूर्णनजृम्भणगात्रमर्दनिःश्वसितो— च्छ्वसितस्त्रस्तगात्रताक्षिनिमीलनसर्वाङ्गक्रियादयोऽनुभावाः। दैन्यमोहजडता—ऽपस्मारस्तम्भस्वेदस्वरभेदवेपथुवैवर्ण्यास्त्रादयो व्यभिचारिणः॥
२४. स्वप्नस्य(/सुप्तम्) निद्रादय आलम्बनविभावाः। निद्रादिकारणान्येवोद्दीपनविभावाः। अक्षिनिमीलनोत्स्वप्नायितादयोऽनुभावाः। प्रायेण तु सर्वे रत्यादयो व्यभिचारिणः॥
२५. प्रबोधस्य निद्राच्छेदाहारपरिणामस्वप्नान्ततीव्रशब्दस्पर्शादय आलम्बनविभावाः। प्राग्दृष्टपदार्थावलोकनारब्धस्मरणमित्रादिकार्यगौरवाचारपरिपालनादय उद्दीपन— विभावाः। जृम्भणोन्मेषनिमेषनिमेषाक्षिमर्दनशयनमोक्षाङ्गवलनादयोऽनुभावाः। उत्साहचिन्तास्मृतिमतिस्वरभेदास्त्रादयो व्यभिचारिणः॥
२६. चपलतायाः रागद्वेषमात्सर्येर्ष्यामर्षप्रातिकूल्यादय आलम्बनविभावाः। पदार्थरामणीयकमानोत्कर्षप्रोत्साहनापकारस्मरणादय उद्दीपनविभावाः। वाक्पारुष्य— दण्डपारुष्यार्थदूषणादयोऽनुभावाः। हासक्रोधोत्साहविस्मयजुगुप्साहर्षा— वेगविषादोग्रतात्रासारोमाञ्चवेपथुस्वेदस्वरभेदादयो व्यभिचारिणः॥
२७. आलस्यस्य गर्वमदमान्द्यनैराश्यश्रमक्लमगर्भस्वाभाव्यादय आलम्बनविभावाः। स्त्रस्तगात्रतादयोऽनुभावाः। निर्वेदश्रमविषादनिद्रादैन्यमोहजडताव्याधिस्वेदवेपथु— स्तम्भादयो व्यभिचारिणः॥
२८. भयस्य मतिव्रीडाविषादावहित्थत्रासवितर्करोमाञ्चस्वरभेदवेपथुवैवर्ण्यादयो व्यभिचारिणः॥*
३६. स्वेदस्य धर्मसम्पीडनादय आलम्बनविभावाः। क्रोधभयहर्षादिकारणान्येव उद्दीपनविभावाः। व्यजनग्रहणादयोऽनुभावाः।
३७. व्याधेः उभयानुरागादिकारणसमानी (?) कोपनिपातसन्निपातवातपित्तश्लेष्म— प्रकोपादय उद्दीपनविभावाः। वेपनालस्यप्रभृतयोऽनुभावाः। ग्लानिशङ्कानि— र्वेदमदश्रमदैन्यमोहचिन्ताऽऽवेगजडतावैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
३८. उन्मादस्य इष्टजनवियोगविभवनाशव्यसनाभिघातालाभापथ्यसेवनादय उद्दीपनविभावाः। अनिमित्तहसितरुदितोत्क्रुष्टप्रलयगर्वरत्यादयो व्यभिचारिणः॥
३९. श्रमस्य अतिव्यायामातिभारोत्क्षेपणादय आलम्बनविभावाः। जृम्भणाङ्गमर्दन— मन्दपदोत्क्षेपणालस्यादयोऽनुभावाः१। निर्वेदग्लानिदैन्यचिन्ता व्यभिचारिणः॥
४०. शोकस्य शापक्लेशविनिपातेष्टजनवियोगविभवनाशवधबन्धनदुःखानुभव— विद्रवोपद्रवादय आलम्बनविभावाः। अश्रुपातालस्यविलपितस्त्रस्तगात्रताभूमि— पाताक्रन्दितवेष्टितदीर्घनिःश्वसितमुखशोषमदादयोऽनुभावाः। स्तम्भवेपथुवैवर्ण्या— श्रुस्वरभेदादयो व्यभिचारिणः॥
४१. विषादस्य आरम्भानिस्तरणो उपायचिन्तनोत्साहविघातवैमनस्यालस्यादयो—ऽनुभावाः। स्तम्भस्वेदगद्गदवैवर्ण्यवेपथुप्रभृतयो व्यभिचारिणः॥
४२. वेवर्ण्यस्य शीतक्रोधादय आलम्बनविभावाः। ॰॰कारणान्येवोद्दीपनविभावाः। नयनमुखरागवृत्ति वैमनस्यालस्यादयोऽनुभावाः। ॰॰व्यभिचारिणः॥
४३. दैन्यस्य मनस्तापदौर्गत्यादय आलम्बनविभावाः। सर्वोपायभ्रंशोपभेदजुगुप्सानिर्वेद— ग्लानिचिन्तामोहजडताविषादनिद्रास्तम्भगद्गदवेपथुवैवर्ण्याश्रुप्रभृतयो व्यभिचारिणः॥
१. ॰लस्या॰ = ॰लब्धा(?)॰ रा.। *२९. 'शङ्का, ३०. त्रासः, ३१. वेपथुः, ३२. व्रीडा, ३३. अबहित्था, ३४ स्तम्भः, ३५. ग्लानिः' इत्येतेषां विभावादीनां वर्णनं मातृकासु त्रुटितम्।
४४. स्वरभेदस्य कारणान्येवोद्दीपनविभावाः। तारमन्द्रमध्यघर्घरगद्गदविस्वर— स्वनादयोऽनुभावाः। हा . . .(व्यभिचारिणः)॥
४५. आवेगस्य विद्युदुल्कानिर्घातपतनचन्द्रसूर्योपरागकेतुदर्शनभ्रमणवातवर्षा— निकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणदुस्स्वप्नदुर्निमित्तदर्शनव्यसनाभिघातादय आलम्बन— विभावाः। उक्तविषयकीर्तनानुभवनसम्प्रधारणादय उद्दीपनविभावाः।
सर्वाङ्गस्रस्ततावकुण्ठनाक्षिमर्दनत्वरितगमनाङ्गपीडनप्रधावनच्छन्नाश्रयणधूमा— कुलनेत्रताङ्गविधूननत्वरितापसरणपश्चादवलोकनाभ्युत्थानालिङ्गनभूमिशयन— परिदेवितविलापाक्रन्दितदेवतानुस्मरणादयोऽनुभावाः। शोकभयविस्मयशङ्का— श्रमचिन्तामोहवितर्कस्तम्भस्वेदवेपथुवैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
४६. अश्रुणः शोकक्रोधहर्षधूमाञ्जनजृम्भणभयानिमेषप्रेक्षणशीतरोगादय आलम्बन— विभावाः। कार्यकारणानुबन्धप्रबन्धादय उद्दीपनविभावाः। नेत्रसम्मार्जनबाष्पमोक्ष— त्रिविधरोदनादयोऽनुभावाः। तत्रोत्फुल्लकपोलाङ्गनिमीलितास्रमपर्याप्तमुक्तास्रम् अस्वस्थगात्रं स्वनवद्गतचेष्टं संभ्रमिपातविचेष्टितविलापदुःखजं प्रस्फुरितोष्ठकपोलं सनिःश्वासं सशिरःकम्पभ्रूकटाक्षादयो रोदनं चानुभावाः। भयनिर्वेदग्लानिश्रमदैन्य मोहौत्सुक्य त्रासवितर्कस्वेदस्वरभेदस्तम्भरोमाञ्चवेपथुवैवर्ण्यादयो व्यभिचारिणः॥
४७. (मोहस्य/स्नेहस्य)१ अवलोकनावस्थावधारणव्यसनाभिघातभयावेगवैरस्मरणादय आलम्बनविभावाः। २संस्तुतप्रदेशदर्शनेष्टगुणाकर्णनर्त्तुमाल्यानुलेपनोपनतिप्रभृतयः उद्दीपनविभावाः। निश्चैतन्यभ्रमणपतनघूर्णनादर्शनादयोऽनुभावाः। ग्लानिप्रलयादयो व्यभिचारिणः॥)
४८. प्रलयस्य मूर्च्छाश्रमाभिघातनिद्रामोहमदादय आलम्बनविभावाः। श्रमादि— कारणान्येवोद्दीपनविभावः। निश्चेष्टतादयोऽनुभावाः। ग्लानिजडतास्तम्भवैवर्ण्यादयो व्यभिचारिणः॥
४९. जडतायाः इष्टानिष्टश्रवणदर्शनव्याध्यादय आलम्बनविभावाः। तद्रामणीय— कोद्वेजनीय(उद्दीप)नविभावाः कार्याप्रतिपत्त्यकथनाभाषणतूष्णीम्भावानिमेषनिरीक्षणा— दयोऽनुभावाः। निर्वेदग्लानिश्रमदैन्यमोहविषादनिद्रास्तम्भ वैवर्ण्यादयो व्यभिचारिणः॥
१. द्र. सरस्वतीकण्ठाभरणे। २. राघवपाठस्तु—प्रकृतधर्माधर्मक्रोधाशावज्ञादयः इति। मुद्रितस्तु पाठो जोशेरपठितः। जोशेरेण मोहो द्विः प्रदत्तः। स्नेहस्तु स्यात्।
५०. निर्वेदस्य अधिक्षेपक्रोधताडनेष्टजनवियोगवैराग्यादय आलम्बनविभावाः। स स(?) x x x x x रताविभावन शास्त्राभ्यासतत्त्वज्ञानादय उद्दीपनविभावाः। रुदितनिःश्वसि(त) x x x x जुगुप्साश्रमजडतानिद्रास्तम्भशमादयो व्यभिचारिणः॥
५१. शमस्य तत्त्वज्ञानादय आलम्बनविभावाः। योगाभ्यासादय उद्दीपनविभावाः। परं ब्रह्मोपास्तिमतिरोमाञ्चहर्षधृत्यादयो व्यभिचारिणः, इति॥
उक्तः सोऽयं विभावानुभावसञ्चारिसङ्करः।
क्रमेण सर्वभावानां शृङ्गारेषु चतुर्ष्वपि॥ १॥
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः।