Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 13

Prakāśa 13: रतिप्रकाशनः

प्रकाशः 13 • रतिप्रकाशनः

Prakāśa 13 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 481 Verses • Citations: SP 13.1–481 • 4 Lexicon Terms • Page 11 of 17 (Verses 30 shown)
यस्य वीर्येण कृतिनो वयं न भुवनानि च॥ ७७॥
विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च॥
उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्‍नेहं करोति मे॥ ७९॥
संपृक्ता यथा—(विक्रमो. १.१४)
यावत् पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका।
सखीभिर्याति संयोगं लताभिश्श्रीरिवार्तवी॥ ८०॥
लङ्केश्वरप्रणति/यभङ्गदृढव्रतं तद् वन्द्यं युगं चरणयोर्जनकात्मजायाः।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योपावनमभूदुभयं समेत्य॥ ८१॥
पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्तं इत्यभिमतो भुवनस्य भर्ता।
चापेन यस्य विनिवर्तितकर्मजातं तत्कोटिमत्कुलिशमाभरणं मघोनः॥ ८२॥
दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता।
इत्यादरेण कथितौ रघुनन्दनेन व्यत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥ ८३॥
प्रकृष्टा प्रवृद्धा यथा—(उराच. ३.२४)
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्‍च्युतः स्फुटितकमलामोदप्रायाः प्रया/वान्तु वनानिलाः।
कलमविरलं रजयत्कण्ठाः क्‍वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः॥ ८४॥
तदङ्गेषु जरां यातु यत् त्वयोपकृतं मम।
नरः प्रत्युपकाराणामापत्सु लभते फलम्॥ ८५॥
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
आमृष्ट—वक्षो—हरिचन्द्रनाङ्का मन्दारमाला हरिणा पिनद्धा॥ ८६॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →