Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 13

Prakāśa 13: रतिप्रकाशनः

प्रकाशः 13 • रतिप्रकाशनः

Prakāśa 13 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 481 Verses • Citations: SP 13.1–481 • 4 Lexicon Terms • Page 8 of 17 (Verses 30 shown)
संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्राप्‍नोति नेत्रोत्सवः।
यद्वालेन्दुकलोच्‍चयादपचितैः सारैरिवोत्पादितं तत् पश्‍येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ४९॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रमलम्।
मुहुः पश्‍यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ५०॥
न्यस्तालक्तकरक्तमाल्यवसना पाषाण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक् कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५१॥
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः।
कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः॥ ५२॥
अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्‍पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य॥ ५३॥
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लबाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥ ५४॥
शिखरिणि क्‍व नु नाम कियच्‍चिरं किमभिधानमसावकरोत् तपः।
तरुणि ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः॥ ५५॥
निरानन्दः कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ ५६॥
प्रासादानामुपरि वलभीजालवातायनेभ्यो भ्रान्तावृत्तिः परिणतसुरागन्धसम्पर्कहृद्यः।
माल्यामोदी मुहुरुपचितस्स्फारकर्पूरवासो वायुर्यूनामभिमतवधूसन्निधानं व्यनक्ति॥ ५७॥
तदाननं मृत्सुरभि क्षितीश्वरो रहः समाघ्राय न तृप्‍तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्॥ ५८॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →