(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।
हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् ।
कथमिव ।
अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतो गतं वृत्तान्तं स्मरति वा न वेति ।
विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
कथमिव ।
गुणवते कन्यका प्रतिपादनीया इत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः ।
(पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
युज्यते । (इति तदेव कर्माभिनयतः)
(नेपथ्ये)
अयमहं भोः ।
(कर्णं दत्त्वा) सखि अतिथीनामिव निवेदितम् ।
ननूटजसंनिहिता शकुन्तला ।
अद्य पुनर्हृदयेनासंनिहिता ।अलमेतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये)
आः अतिथिपरिभाविनि
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥
हा धिग्घा धिक् ।अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । (पुरोऽवलोक्य)
न खलु यस्मिन्कस्मिन्नपि ।एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः ।
कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावदहमर्घोदकमुपकल्पयामि ।
तथा (इति निष्क्रान्ता)
(पदान्तरे स्खलितं निरूप्य)अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । (इति पुष्पोच्चयं रूपयति)
(प्रविश्य)
सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः ।
(सस्मितम्तस्मिन्बह्वेतदपि । कथय ।
यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।
भगवन्प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति ।
ततस्ततः ।
ततो न मे वचनमन्यथा भवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः ।