(ततः प्रविशति कुशानादाय यजमानशिष्यः)
अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥
यावदिमान्वेदिसंस्तरणार्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्यावलोक्य च ।आकाशे) प्रियंवदे कस्य इदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि ।आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति ।
तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् ।अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
विष्कम्भकः ।
(ततः प्रविशति कामयमानावस्थो राजा)
(सचिन्तं निःश्वस्य)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥
(मदनबाधां निरूप्य) भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः ।
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर् द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैस् त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥
अथवा ।
अद्य अपि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमित्थमुष्णः ॥
अनिशमपि मकरकेतुर्मनओर्रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥
(सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि ।
(निःश्वस्य) किं नु खलु मे प्रियादर्शनाद् ऋते शरणमन्यत् ।
यावदेनामन्विष्यामि । (सूर्यमवलोक्य)इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति ।
तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा)अहो प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥
(परिक्रम्यावलोक्य च)अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि ।
अब्न्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥
यावद्विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्)अये लब्धं नेत्रनिर्वाणम् ।
एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु ।श्रोष्याम्यासां विश्रम्भकथितानि । (इति विलोकयन्स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
(उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः ।
किं वीजयतो मां सख्यौ ।
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
बलवदस्वस्थशरीरा शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । (साभिलाषं निर्वर्ण्य)अथ वा कृतं संदेहेन ।
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयोर् न तु ग्रीष्मस्यैवं सुभगमपराधं युवतिषु ॥
(जनान्तिकम्)अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।
सखि मम अपीदृश्याशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावदेनाम् (प्रकाशम्) । सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः ।
(पूर्वार्धेन शयनादुत्थाय) हला किं वक्तुकामासि ।