Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 03

Canto 3

तृतीयोऽङ्कः

Canto 3 of Abhijñānaśākuntalam.

Total: 134 Verses • Citations: AS 3.1–134 • 1 Lexicon Terms • Page 5 of 5 (Verses 14 shown)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च)
व्याख्या / Traditional Commentary & Notes
sp: सख्यौ
इत इत आर्या गौतमी ।
व्याख्या / Traditional Commentary & Notes
sp: गौतमी
(शकुन्तलामुपेत्य) जाते अपि लघुसंतापानि तेऽङ्गानि ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
आर्ये अस्ति मे विशेषः ।
व्याख्या / Traditional Commentary & Notes
sp: गौतमी
अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुतलामभ्युक्ष्य) वत्से परिणतो दिवसः ।एहि उटजमेव गच्छामः । (इति प्रस्थिताः)
व्याख्या / Traditional Commentary & Notes
sp: शकु
(आत्मगतम्) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
व्याख्या / Traditional Commentary & Notes
sp: राजा
(पूर्वस्थानमुपेत्य । सनिःश्वासम्)अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि
AS 3.128 औपच्छन्दसिक
मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥
क्व नु खलु संप्रति गच्छामि ।अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि ।
AS 3.131 शार्दूलविक्रीडितम्
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियम् क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥
AS 3.133 वसन्ततिलका
सायंतने सदनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
अयमहमागच्छामि । (इति निष्क्रान्तः)
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →