हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ।
कथय किं निमित्तं संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भप्रतीकारस्य ।
अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वामिप्रायेण मे दर्शनम् ।
(आत्मगतम्) बलवान्खलु मेऽभिनिवेशः ।इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।
सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे ।अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
अवितथमाह प्रियंवदा । तथा हि
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनम् मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥
सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि ।
अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।
राजा
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णम् अत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥
सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः (इत्यर्थोक्ते लजां नाटयति)
कथयतु प्रियसखी ।
तत आरभ्य तद्गतेनाभिलाषेण एतदवस्थास्मि संवृत्ता ।
(सहर्षम्) श्रुतं श्रोतव्यम् ।
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥
तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि ।अन्यथावश्यं सिञ्चत मे तिलोदकम् ।
संशयछेदि वचनम् ।
(जनान्तिकम्)अनसूये दूरगतमन्मथाक्षमेयं कालहरणस्य ।
यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
तथा यथा भणसि ।
(प्रकाशम्) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते ।
किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः ।
निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
कथमिव ।
ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ।
सत्यमित्थं भूत एवास्मि । तथा हि
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतम् निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।अलभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥
(विचिन्त्य) हला मदनलेखोऽस्य क्रियतां तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।