शक्यमिदानीमाश्वसितुम् ।अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः ।
(इति परिक्रामतः)
(विलोक्यानसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।
प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।
को नाम उष्णोदकेन नवमालिकां सिञ्चति ।
(इति निष्क्रान्ते)
विष्कम्भकः ।
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि ।
यात्येकतोऽस्तशिखरं पतिरोषधीनाम् आविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् लोको नियम्यत इवात्मदशान्तरेषु ॥
अन्तर्हिते शशिनि सैव कुमुद्वती मे वृष्टिं न नन्दयति संस्मरणीयशोभा ।इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥
(प्रविश्यापटीक्षेपेण)
यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ।
यावदुपस्थिता होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः)
प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता ।अथवा दुर्वासः शाप एष विकारयति ।
अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ।
तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिता अपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् ।इत्थं गतेऽस्माभिः किं करणीयम् ।
(प्रविश्य)
(सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् ।
सखि कथमेतत् ।
शृणु ।इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि ।
ततस्ततः ।
तावदेनां लज्जावनतमुखीं परिष्वज्य तातपाश्यपेनैवमभिनन्दितम् । दिष्ट्या दूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येव अशोचनीयासि संवृत्ता ।अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।
अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
(सविस्मयम्) कथमिव ।
(संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥