Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 04

Canto 4

चतुर्थोऽङ्कः

Canto 4 of Abhijñānaśākuntalam.

Total: 193 Verses • Citations: AS 4.1–193 • 1 Lexicon Terms • Page 6 of 7 (Verses 30 shown)
(जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्य्यटति दुष्करमहं करोमीति ।
व्याख्या / Traditional Commentary & Notes
sp: अन
AS 4.153 आर्या
एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
व्याख्या / Traditional Commentary & Notes
sp: शार्ङ्गरव
AS 4.157 शार्दूलविक्रीडितम्
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस् त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥
व्याख्या / Traditional Commentary & Notes
sp: शार्ङ्गरव
गृहीतः संदेशः ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।
व्याख्या / Traditional Commentary & Notes
sp: शार्ङ्गरा
न खलु धिमतां कश्चिदविषयो नाम ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
सा त्वमितः पतिकुलं प्राप्य
AS 4.162 शार्दूलविक्रीडितम्
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥
कथं वा गौतमी मन्यते ।
व्याख्या / Traditional Commentary & Notes
sp: गौ
एतावान्वध्हूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
वत्से परिष्वजस्व मां सखीजनं च ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
AS 4.170 हरिणी
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्कं प्रसूय च पावनम् मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥
(शकुन्तला पित्ः पादयोः पतति)
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
यदिच्छामि ते तदस्तु ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(सख्यावुपेत्य) हला द्वे अपि मां सममेव परिष्वजेथाम् ।
व्याख्या / Traditional Commentary & Notes
sp: सख्यौ
(तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
अनेन संदेहेन वामाकम्पितास्मि ।
व्याख्या / Traditional Commentary & Notes
sp: सख्यौ
मा भैषीः ।अतिस्नेहः पापशङ्की ।
व्याख्या / Traditional Commentary & Notes
sp: शार्ङ्गरव
युगान्तरमारूढः सविता । त्व्वरतामत्रभवती ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(आश्रमाभिमुखी स्थितवा) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।
व्याख्या / Traditional Commentary & Notes
sp: काश्यप
AS 4.180 वसन्ततिलका
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥
व्याख्या / Traditional Commentary & Notes
sp: गौतमी
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →