Skip to main content
Search
RV
Raghuvaṁśam • Chapter 11

Canto 11

एकादशः सर्गः (सीताविवाहवर्णनम्)

Canto 11 of Raghuvaṁśam.

Total: 93 Verses • Citations: RV 11.1–93 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
RV 11.61 रथोद्धता
भास्करश्च दिशमध्युवास यां तां श्रितः प्रतिभयं ववासिरे । क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भास्कर इति॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः। `उपान्वध्याङ्वसः` (पा.1।4।48) इति कर्मत्वम्। तां दिशं श्रिताः शिवा गोमायव, `स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः` इत्यमरः।थ क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकरं ववासिरे रुरुवुः। `वासृ शब्दे` इति धातोर्लिट्। `तिरश्चां वासितं रुतम्` इत्यमरः ॥
RV 11.62 रथोद्धता
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् । अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्प्रतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित् कार्यज्ञः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्क्तापृच्छत्। `प्रश्नोऽनुयोगः पृच्छा च` इत्यमरः (अ.को.1|6|10)। स गुरुः स्वन्तं शुभोदर्कं भावीति तस्य राज्ञो व्यथआमलघयल्लघूकृतवान् ॥
RV 11.63 रथोद्धता
तेजसः सपदि राशिरुत्थइतः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेजसा इति॥ सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु। यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः । अभूदिति शेषः ॥
RV 11.64 रथोद्धता
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पित्र्यमिति॥ उपवीतं लक्षणं चिह्नं यस्य तम्। पितुरयं पित्र्यः। `वाय्वुतुपित्रुषसो यत्` (पा.4।2।31) इति यत्प्रत्ययः । तमंशम्। धनुषोर्जितं धनुरूर्जितम्। मातुरयं मातृकः। `ऋतष्ठञअ` (पा.4।3।78)इति ठञ्प्रत्ययः। तमंशं च दधत्। यो भार्गवः। ससोमश्चन्द्रयुक्तो घर्मदीधितिः सूर्य इव। सद्विजिह्नः रसर्पश्चन्दनद्रुम इव। स्थितः ॥
RV 11.65 रथोद्धता
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा । वेपमानजननीशइरश्छिदा प्रागजीयत घृणा ततो मही ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): येनेति॥ रोषपरुष आत्मा बुद्धिर्यस्य सः। `आत्मा जीवो धृतिर्बुद्धिः` इत्यमरः। तस्य रोषपरुषात्मनः स्थितिभिदोऽपि मर्यादालङ्घिनोऽपि पितुः शासने तस्थुषा स्थितेन वेपमानजननीशइरश्छिदा येन प्राग्घृणाऽजीयत। ततोऽनन्तरं मह्यजीयत। मातृहन्तुः क्षत्रवधात्कुतो जुगुप्सेति भावः ॥
RV 11.66 रथोद्धता
अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अक्षेति॥ यो भार्गवो दक्षिणश्रवणे संस्थितेनाऽक्षबीजवलयेनाक्षमालया क्षत्रियान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुद्वहन्निव निर्बभौ ॥
RV 11.67 रथोद्धता
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् । बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवंशानां निधनाय नाशार्थम्। `निधनं स्यात्कुले नाशे` इति विश्वः। दीक्षितम्। प्रवृत्तमित्यर्थः। तं भार्गवं स्वां दशां चावलोक्य बालाः सूनवो यस्य स पार्थिवो विषसाद। स्वस्यातिदौर्बल्याच्छत्रोश्चातिक्रोधात् कांदिशीकोऽभवदित्यर्थः ॥
RV 11.68 रथोद्धता
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे । ह्यद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नामेति ॥ आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषण वर्तमानं राम इति नाम। हार-सर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव। अस्य दशरथस्य हृद्यं हृदयंगमं भयदायि भयंकरं चाभवत् ॥
RV 11.69 रथोद्धता
अर्ध्यमर्ध्यमिति वादिनं नृपं सोऽनवेक्ष्य मरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अर्घ्यमिति॥ स भार्गवः। अर्घ्यमर्घ्यमिति वादिनं नृपमनवेक्षअय। यतो यत्र भरताग्रजस्ततस्तत्र। `इतराभ्योऽपि दृश्यन्ते` (पा.5।3।14) इति सार्वविभक्तिकस्तसिः। क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषाग्निस्तस्यार्चिषं ज्वालामिव स्थिताम्। `ज्वालाभासोर्नपुंस्यर्चिः` इत्यमरः। उदग्रा तारका कनीनिका यस्यास्ताम्। `तारकाऽक्ष्णः कनीनिका` इत्यमरः। दृशं संदधे ॥
RV 11.70 रथोद्धता
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः । अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ कार्मुकनिषक्तमुष्टिना शरमङ्गुलीविवरचारिणं कुर्वता। योद्धुमिच्छता युयुत्सुना। तेन भार्गवेण कर्त्रा विगतभीर्निर्भीकः सन्। पुरोगतोऽग्रगतो राघवो निजगद उक्तः। कर्मणि लिट् ॥
RV 11.71 रथोद्धता
क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्षत्रेति॥ क्षत्रजातं क्षत्रजातिर्मेऽयकारेण पितृवधरूपेण वैरि द्वेषि। तत् क्षत्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसर्पो दण्डघट्टनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥
RV 11.72 उपजातिः
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः । तन्निशम्य भवता समर्थये वीर्यश्रृङ्गमिव भग्नमात्मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मैथिलस्येति॥ अन्यैः पार्थइवैः। अनमितपूर्वं पूर्वमनमितम्। सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान्। `किल`इति वार्तायाम्। `वार्तासेभाव्ययोः किल` इत्यमरः। तद्धनुर्भग्नं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङगं भग्नमिव समर्थये मन्ये ॥
RV 11.73 रथोद्धता
अन्यदा जगति राम इत्ययं शब्द उञ्चरित एव मामगात् । व्रीडमावहति मे स संप्रति व्यास्तवृत्तिरुदयोन्मुखे त्वयि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अन्यदेति॥ अन्यदाऽन्यस्मिन्काले जगति राम इत्ययं शब्द उञ्चरितः सन् मामेवागात्। संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिर्विपरीतवृत्तिः। अन्यगामीति यावत्। स शब्दो मे व्रीडमावहति लज्जां करोति ॥
RV 11.74 रथोद्धता
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ । धेनुवत्सहरणाञ्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बिभ्रत इति॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ। धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च। कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च। वत्सहरणे भारतश्लोकः-`प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥` इति ॥
RV 11.75 रथोद्धता
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्षत्रियेति॥ तेन कारणेन। क्रियते येनासौ करणः। क्षत्रियान्तस्य करणोऽपि विक्रमः। त्वय्यजिते मां नावति न प्रीणाति। तथा हि-पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत् कक्ष इव। `तत्र तस्येव` (पा.5।1।116) इति सप्तम्यर्थे वतिः। सागरेऽपि। ज्वलति ॥
RV 11.76 रथोद्धता
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया । खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विद्धीति॥ किंच ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च, विद्धि। यद्धनुस्त्वयाऽभाज्यभञ्जि। `भञ्जेश्च चिणि` (पा.6।4।36) इति विभाषया नलोपः। तथा हि-नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति। ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥
RV 11.77 रथोद्धता
तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्, मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य। `ल्यपि लघुपूर्वात्` (पा.6।4।56)इति णेरयादेशः। सशरं यथा तथा त्वया विकृष्यताम्। प्रधानं रणस्तिष्ठतु। प्रधानं तावदास्तामित्यर्थः। `प्रधनं मारणे रणे` इति विश्वः। एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन। `तरसी बलरंहसी` इत्यमरः। त्वया जितः ॥
RV 11.78 आर्यागीति
कातरोऽसि यदि वाद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभयययाचनाञ्जलिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कातर इति॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि। वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाञ्जलिर्बध्यताम्। `तौ युतावञ्जलिः पुमान्` इत्यमरः (अ.को.2|6|86) ॥
RV 11.79 रथोद्धता
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ भीमदर्शने भार्गव एवमुक्तवति सति। राघवः स्मितेन हासेन विकम्पिताधरः सन्। तद्धनुर्ग्रहणमेव समर्थमुचितामुत्तरं प्रत्यपद्यताङ्गीचकार ॥
RV 11.80 रथोद्धता
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत्। तथा हि-नवाम्बुदः केवलो रिक्तोऽपि सुभगः। त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः? सुभग एवेति भावः ॥
RV 11.81 रथोद्धता
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत्। कर्मणे प्रभवतीति कार्मुकं धनुश्च। `कर्मण उकञ्` (पा.5।1।101)इत्युकञ्प्रत्ययः। अधिरोपितम्। भूभृतां रिपुर्भार्गवश्च। धूमशेषौ धूमकेतनोऽग्निरिव। निष्प्रभो निस्तेजस्क आस बभूव। `आस ` इति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥
RV 11.82 रथोद्धता
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ परस्परस्थितावन्योन्याभियुक्तौ। वर्धमानं च परिहीनं चेति द्वन्द्वः। वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघव-भार्गवावपि। दिनात्यये सायंकाले। पर्वणि भवौ पार्वणौ शशि-दिवाकराविव। जनता जनसमूहः। `ग्रामजनबन्धुसहायेभ्यस्तल्` (पा.4।2।43)इति तल्प्रत्ययः। पश्यति स्मापश्यत्। अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥
RV 11.83 रथोद्धता
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः। आत्मनि विषये स्खलितवीर्यं कुण्ठिताशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य। व्याजहार बभाषे ॥
RV 11.84 रथोद्धता
न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि । शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ अभिभवत्यपि त्वयि। विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि। किं त्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि, उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥
RV 11.85 रथोद्धता
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच। किमिति? तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न। किंतु वेद्येवेत्यर्थः। किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥
RV 11.86 रथोद्धता
भस्मसात्कृतवतः पितृद्विषः पात्रसाञ्च वसुधां ससागराम् । आहितो जयविपर्ययोऽपि मे श्लाध्य एव परमेष्ठिना त्वया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भस्मसादिति॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः। `विभाषा साति कार्त्स्न्ये` (पा.5।4।52) इति सातिप्रत्ययः। ससागरां वसुधां च पात्रसात् पात्राधीनं देयं कृतवतः। `देये त्रा च` (पा.5।4।55)इति चकारात्सातिः। कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ॥
RV 11.87 रथोद्धता
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिषअयति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्कारणात्, हे मतिमतां वर! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय। किंतु खिलीकृता दुर्गमीकृतापि स्वर्ग-द्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति। अतस्तामेव जह्रीत्यर्थः ॥
RV 11.88 रथोद्धता
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यपद्यतेति॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान्। प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च। स सायकः सुकृतोऽपि साधुकारिणोऽपि। करोतेः क्विप्। भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥
RV 11.89 रथोद्धता
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राघव इति॥ राघवोऽपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत् प्रणनाम। तथा हि-तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये। भवतीति शेषः ॥
RV 11.90 रथोद्धता
राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राजसत्वमिति॥ मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूयपितुरागतं पित्र्यं शमं यदा गमितोऽस्मि। तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →