Skip to main content
Search
Ch. 11 RV 11.64
Full Chapter
RV • Chapter 11: Canto 11

RV 11.64

Canonical Ref: RV 11.64
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पित्र्यमिति॥ उपवीतं लक्षणं चिह्नं यस्य तम्। पितुरयं पित्र्यः। `वाय्वुतुपित्रुषसो यत्` (पा.4।2।31) इति यत्प्रत्ययः । तमंशम्। धनुषोर्जितं धनुरूर्जितम्। मातुरयं मातृकः। `ऋतष्ठञअ` (पा.4।3।78)इति ठञ्प्रत्ययः। तमंशं च दधत्। यो भार्गवः। ससोमश्चन्द्रयुक्तो घर्मदीधितिः सूर्य इव। सद्विजिह्नः रसर्पश्चन्दनद्रुम इव। स्थितः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 11.64. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 11.63) All Verses in Chapter 11 Next Verse (RV 11.65) →