Skip to main content
Search
Ch. 11 RV 11.62
Full Chapter
RV • Chapter 11: Canto 11

RV 11.62

Canonical Ref: RV 11.62
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् । अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्प्रतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित् कार्यज्ञः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्क्तापृच्छत्। `प्रश्नोऽनुयोगः पृच्छा च` इत्यमरः (अ.को.1|6|10)। स गुरुः स्वन्तं शुभोदर्कं भावीति तस्य राज्ञो व्यथआमलघयल्लघूकृतवान् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 11.62. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 11.61) All Verses in Chapter 11 Next Verse (RV 11.63) →