Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 2 of 13 (Verses 30 shown)
ते स सर्वे तदादेशकारिणस्तत्-सहिता वेगात्तद्-गृहं गता यावत्पश्यन्ति तावद्रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश्च-भोः किमेतत् ? ते प्रोचुर्यथावस्थितं नापित-वृत्तम् ।
तैरपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर्नापितः पृष्टः-भोः ! किमेतत्भवता कुकृत्यमनुष्ठितम् ?
स आह—किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टमकथयत् ।
ततः श्रेष्ठिनमाहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित्क्षपणको व्यापादितः ?
ततः तेनापि सर्वः क्षपणक-वृत्तान्तस्तेषां निवेदितः । अथ तैरभिहितम्-अहो शूलमारोप्यतामसौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम्—
PT 5.36 अनुष्टुप्
कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥
PT 5.38 अनुष्टुप्
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मणी नकुलं यथा ॥
ते धर्माधिकारिणः प्रोचुः—
कथा १ ब्राह्मणी-नकुल-कथा
कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तमपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततमेवमाशङ्कते यत्कदाचिदेष स्व-जाति-दोष-वशादस्य दारकस्य विरुद्धमाचरिष्यति इति । उक्तं च—
PT 5.43 अनुष्टुप्
कुपुत्रोऽपि भवेत्पुंसां हृदयानन्द-कारकः । दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥
PT 5.44 अनुष्टुप्
एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्र-गात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥
PT 5.45 अनुष्टुप्
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥
अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जल-कुम्भमादाय पतिमुवाच-ब्राह्मण, जलार्थमहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद्रक्षणीयः ।
अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखमालोक्य शङ्कित-चित्ता नूनमनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात्तस्योपरि तं जल-कुम्भं चिक्षेप ।
एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहे आगच्छति, तावत्सुतस्तथैव सुप्तस्तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतमवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुमारब्धा ।
अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत्पश्यति तावत्पुत्र-शोकोऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तदनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्विदमुच्यते—
PT 5.50 अनुष्टुप्
अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥
कथा २ लोभाविष्ट-चक्र-धर-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिगियं दरिद्रता !उक्तं च—
PT 5.55 वंशस्थम्
वरं वनं व्याघ्र-गजादि-सेवितं जनेन हीनं बहु-कण्टकावृतम् । तृणानि शय्या परिधान-वल्कलः न बन्धु-मध्ये धन-हीन-जीवितम् ॥
PT 5.57 शार्दूलविक्रीडितम्
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपित-विक्रमाण्यपि नृणां येषां न हि स्याद्धनम् ॥
PT 5.58 इन्द्रवज्रा
शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश्च मानं प्राप्नोति मर्त्योऽत्र मनुष्य-लोके ॥
PT 5.59 वसन्ततिलका
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥
तद्गच्छामः कुत्रचिदर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते—
← Previous (Ch. 4) Full Table of Contents